________________
१४३
हैमनूतनलघुप्रक्रिया पञ्चम्याः कृग ।।४।५२॥ वेत्तेः परस्याः पञ्चम्याः स्थाने किदामादेशो वा भवति, आमन्ताच्च परः पञ्चम्यन्तः कृग् अनु प्रयुज्यते । विदाकरोतु, विदांकरोतु । विदांकुरुतात् । पक्षे-वेत्तु, वित्तात् । 'विद्धि, वेदानि । अवेत् । अविर्दुः, अंवेः अवेत् । अवित्त । अवेदम् । अवेदीत , अवेदिषुः, अवेदिष्ट ॥
वेत्तः कित् ।३।४।५१॥ वेत्तेः परस्याः परोक्षायाः स्थाने आमादेशो वा भवति, स च कित् , आमन्ताच्च परे कृभ्वस्तयोऽनु प्रयुज्यन्ते । विदाञ्चकार, विदांचकार । पक्षेविवेद, विविदुः । विवेदिय । विद्यात् । वेदिता, वेदिष्यति, अवेदिष्यत् ॥ हनं हिंसागत्योः ॥ हन्ति, प्रणिहन्ति ।
यमिरमिनमिगमिहनिमनिवनतितनादेधुटिक्डिति ।४।२।५५॥ यमादीनां तनादीनां चान्त्यस्याऽनुनासिकस्य धुडादौ विङति लुक् स्यात् । हतः, घ्नन्ति, हंसि, इथः, हन्मि । प्रघ्नन्ति ।
१-तौ मुमः । २-हुधुट इति धिः । ३-व्यञ्जनादिति देलृक् । ४-सिज्विद
इत्युस् । ५-से:स्द्धामिति से छुक् , रुत्वं च । ६-म्नामिति पर्जन्यवल्लक्षणन्यायेन पञ्चमः । ७-नेर्मेति णः । ८-यमिरमीति नकारलोपः । ९-हनो घीति णत्वनिषेधः । गमहनेत्युपान्त्यलोपः, हनो हुनो न इति घ्नादेशः । ।