SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । १८७ अधोऽधो ग्रामम् । अध्यधि ग्रामम् । उपर्युपरि ग्रामं ग्रामाः । द्वित्व इति किम् ? अधो गृहस्य ॥ सर्वोभयाभिपरिणा तसा ॥ ३५ ॥ सर्वादिभिस्तसन्तैर्युक्तानाम्नो द्वितीया स्यात् । सर्वतः उभयतः, अभितः, परितो वा ग्राम वनानि ॥ लक्षणवीप्स्येत्थम्भूतेष्वभिना ॥ ३६ ॥ लक्षणं चिह्नम् , वीप्साकर्म वीप्स्यम् , इत्थम्भूतः किञ्चित्प्रकारमापन्नः, एषु वर्तमानादभिना युक्ताद्वितीया स्यात् । वृक्षमभि विद्युत् , वृक्षं वृक्षमभि सेकः, साधुमैत्रो मातरद्वितीयेत्यनुवर्तन्ते, एवमग्रिमसूत्रेष्वपि । अधः प्रभृतयः कृतद्विवचनाः समीपवचना एव, ‘सामीप्येऽधोऽध्युपरी'ति तत्रैव द्वित्वविधानात् । सामीप्यञ्च देशकृतं कालकृतं वा । समीपाधस्तनभागवृत्तित्वसमीपोर्ध्वभागवृत्तित्वं क्रमेणार्थः । अधो गृहस्येत्यत्राध शब्दोऽधोदेशवाचि, न सामीप्यमत्र विवक्षितमिति न द्वित्वम् । षष्ठ्यपवादः । यस्य सामीप्यं तस्माद्रामादेः सम्बन्धे षष्ठ्यां प्राप्तायामिदं विधानम् । बहुवचनमेकद्विबहाविति यथासङ्ख्यनिवृत्त्यर्थम् ॥ सर्वश्चोभयश्चाभिश्च परिश्च तेन, तसा तृतीया ॥ तसेति सर्वादिविशेषणत्वात्तदन्तविधिः, षष्ठ्यपवादः ॥ लक्षणञ्च वीप्स्यश्चेत्थम्भूतश्च तेषु, अभिना तृतीया । लक्षणं चिह्नम् । अवयवशः समुदायस्य क्रियादिना साकल्येन प्राप्तीच्छा वीप्सा, तत्कर्म वीप्स्यम् । केनचिद्विवक्षितेन विशेषेण भाव इत्थं भावस्त द्विषय इत्थम्भूतः । वृक्षमभि विद्युदिति, विद्योतत इति शेषः । वृक्षो लक्षणं विद्योतमाना विद्युल्लक्ष्यं तयोर्लक्ष्यलक्षणभावरूपसम्बन्धोऽभिना द्योत्यते । वृक्षप्रकाशेन हि तत्समीपदेशावच्छिन्ना विद्युज्ज्ञाप्यते । वृक्षं वृक्षमिति, एकैकस्य वृक्षस्य सेक इत्यर्थः । अत्र वीप्साविषये व्याप्यत्वं द्विवचनद्योत्यं व्याप्यत्वविशिष्टवृक्षादीनां व्याप. कत्वसम्बन्धेन सेचनेऽन्वयोऽभिना द्योत्यः । साधुमैत्रो मातरमभीति, मातृविषये साधुत्वप्रकार प्राप्त इत्यर्थः । अत्र मैत्रस्य साधुभावं प्रति
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy