SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १८६ सिद्धहेमलघुवृत्तौ । द्वितीयाध्यायस्य भव ॥ गौणात्समयानिकषाहाधिगन्तरान्तरेणातियेनतेनैर्द्वितीया ।। ३३ ।। समयादिभिर्युक्ताद्गौणान्नाम्न एकद्विबहौ यथासङ्ख्यममौशसिति द्वितीया स्यात् । समया ग्रामम् । निकषा गिरि नदी । हा ! मैत्रं व्याधिः । धिग् जाल्मम् । अन्तराऽन्तरेण च निषधं नीलं च विदेहाः । अन्तरेण धर्म सुखं न स्यात् । अतिवृद्धं कुरून् महरालम् । येन पश्चिमां गतस्तेन पश्चिमां नीतः ॥ द्वित्वेऽधोऽध्युपरिभिः ॥ ३४ ॥ द्विरुक्तैरेभिर्युक्तानाम्नो द्वितीया स्यात् । दित्यर्थः । तेनामन्त्रणशब्देन सह प्रसिद्धो वाच्यवाचकभावलक्षणः सम्बन्धो यस्य देवदत्तादेः सः प्रसिद्धतत्सम्बन्धः । स्वार्थादिपञ्चकलक्षणनामार्थात् कर्मत्वादितश्च भिन्नस्यामन्त्रणस्य शेषरूपस्य विवक्षणे षष्ठीप्राप्तौ तद्वाधनार्थमिदं सूत्रम् । एवञ्च सम्बोधनविभक्तिरनुवाद्यविषया सम्बोध्यतावच्छेदकरूपेणामन्त्र्यस्य सिद्धि विनाऽनुवाद्यत्वासम्भवात् , तेन राजा भवेत्यादौ न सम्बोधनविभक्तिः राजत्वादेर. सिद्धत्वेनानुवाद्यत्वाभावात् ॥ गौणात् , समया च निकषा च हाच धिक् च अन्तरा च अन्तरेण च अति च येन च तेन च तैर्द्वितीया । नाम्नः एकद्विबहावित्यनुवर्तते । यस्य नाम्न आख्यातपदेन सामानाधिकरण्यं नास्ति तद्गौणम् , यस्य त्वस्ति तन्मुख्यम् , समया ग्राममिति, ग्रामसमीपवृत्तिनदीत्यर्थः । अत्र नद्यादि समीपपदार्थस्य विशेष्यं, प्रामादि विशेषणं क्रियापदश्चात्रास्तीति विज्ञेयम् । यत्र क्रिया न श्रूयते तत्रास्तिर्भवन्तीति परः प्रयुज्यत इति वचनात् । अन्तरान्तरेणशब्दौ समयादिभिः साहचर्यान्निपातौ ग्राह्यौ, अन्तरेणशब्दो विनार्थश्च । अतिवृद्धमिति, कुरूणामतिक्रमेण पाण्डवानां महलं प्रवृद्धमित्यर्थः । येनतेनौ लक्ष्यलक्षणभावौ द्योतयतः । अत्र सर्वत्र सम्बन्धसामान्ये षष्ठीप्राप्तौ तदपवादायेदम् ॥ द्वयोर्भावो द्वित्वं तस्मिन् , अधश्च अधि च उपरि च तैः ॥ गौणानाम्न एकद्विवहौ
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy