SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। ६ दर्पणः तादृशप्रतीतियोग्यतायास्तत्राऽनपायादनायासेनैव कर्मवद्भावोपपत्तिः । यदि च कर्तृगतविशेषाऽऽधायकक्रियार्थकत्वं तत्स्थक्रियकत्वमिति लक्षणे पच्यादिकर्तरि श्रमरूपविशेषदर्शनाजानात्यादिकर्तरि तददर्शनाच्चाऽतिव्याप्त्यादिदोषादुक्तभाष्येण विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता । क्रियाव्यवस्था त्वन्येषां शब्दै रेव प्रकल्पिता इति हरिकारिकोत्तरार्धेन च पूर्वोक्तलक्षणयोरेव निर्भरः प्रतीयते इत्युच्यते तदाऽपि न क्षतिः । कर्मस्थक्रियकलक्षणे जानात्यादिभिन्नत्वस्य षोपदेशलक्षणे वष्काद्यन्यतमत्वस्येव कर्तृस्थक्रियकुलक्षणे जानात्याद्यन्यतमत्वस्यापि निवेशेन करोतो कर्मस्थक्रियकत्वस्य जानात्यादौ कर्तृस्थक्रियकत्वस्य चोपपत्तेः । अत एव हरिणाऽपि'शब्दैरेव प्रकल्पिता' इत्यत्र शब्दपदमुपात्तम् । शब्दप्रतिपाद्याऽर्थगतविशेषैः शब्दैश्चे परीक्षा करोतेरपि साध्यत्वाख्यविषयताविशेषानुकूलव्यापारवाचकतया तस्याः कर्मनिष्ठत्वान्नानुपपत्तिः । प्रकृते नैयायिकमतखण्डनपरो ग्रन्थस्तु केवलयत्नमात्रप्रतिपादकत्वपक्षे प्राप्यत्वस्य क्रियाकृतविशेषानुपलभ्यमानत्वस्वरूपत्वस्य कथनेन दूषणमपि तथैव । न च यत्र कर्मणि क्रियाकृतो विशेष उपलभ्यते; तत्र क्रिया कर्मस्था इति यथोच्यते, तथा यत्र कर्तरि क्रियाकृतो विशेष उपलभ्यते तत्र क्रियाकर्तृस्था इत्यपि स्यात् । एवञ्च पच्यादिकर्तरि क्रियाकृतस्य श्रमस्योपलम्भात्, तस्य कर्तृस्थक्रियकत्वव्यवहारोऽपि स्यादिति वाच्यम् ? एकीयमतत्वेन तथा वर्णनात् । अत एव हरिणा "विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता ॥ इति प्रदर्श्य सिद्धान्त उक्तः । क्रियाव्यवस्थात्वन्येषां शब्दै रेव प्रकल्पिता। ___ इत्यनेन । अन्येषां भाष्यानुसारिणां शब्दैः लक्षणविशेषप्रतिपादकशब्दर्यत्रोक्तान्यतरावच्छेदकसम्बन्धेन कर्तृकर्मोभयसाधारणं धातुवाच्यं फलं भवतिः तत्र क्रियायाः कर्तृत्वमिति । यत्र तु न तथा, तत्र क्रियायाः कर्मस्थत्वमिति । एवं च पच्धातुप्रतिपाद्यस्य विक्लित्तिरूपफलस्योक्तान्यतरावच्छेदकसम्बन्धेन नोभयसाधारण्यमिति । पच्-धातुकर्मस्थक्रियक एव, न च पूर्वकालस्थितरूपादिध्वंसपूर्वकरूपान्तराद्युत्पत्तिरूपफलस्य या व्यापारजन्यता तदवच्छेदकसम्बन्धः स्वरूपसम्बन्ध एव वाच्यः । उत्पत्तेराद्यलक्षणसम्बन्धरूपत्वात् । एवं च कार्यतावच्छेदकसम्बन्धेन फलाधिकरणे तण्डुलादौ क्रियारूपस्य व्यापारस्यावृत्तित्वेन कथं तयोः कार्यकारणभावः । यदि स्वजन्यरूपादिध्वंसवत्वमेव कारणातावच्छेदकसम्बन्ध इत्युच्यते, तदा फलसमा. नाधिकरणव्यापारवाचकतया ऽकर्मकत्वापत्तिरिति वाच्यम् ? व्यापारनिष्ठायाः फलकारणतावच्छेदकसम्बन्धः स एव फलव्यधिकरणव्यापारवाचकत्वमित्यत्र व्यापारे फलवैयाधिकरण्यं तु फलतावच्छेदकसम्बन्धेन यत् फलानधिकरणं तन्निरूपितव्यापारतावच्छेदकसम्बन्धावच्छिन्नाधेयत्वरूपम् । व्यापारतावच्छेदकसम्बन्धस्तु न फलकारणतावच्छेदकसम्बन्धः किन्तु समवायादिरूपो विलक्षण एवेति । तेन सम्बन्धेन फलवैयधिकरण्यस्याक्षतत्वात् । उक्तं हि भाष्ये-*अन्येषां मतम् । न च कर्तृस्थभावकानां
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy