________________
दर्पणपरीक्षासहिते भूषणसारेत्वमिति सुबर्थनिर्णये वक्ष्यते । न ह्ययं घटः केनचिद् दृष्टो प्रामोऽयं केनचिद् गत इति शक्यं कर्मदर्शनेनाऽवगन्तुम् । घटं करोतीति निर्वत्त्ये सोमं सुनोतीति विकार्येच तज्ज्ञातुं शक्यमिति न तत् प्राप्यम् । तथा च घटादेद्वेश्यादौ प्राप्यकर्मत्वानोक्तातिप्रसङ्ग इति भावः।।
दर्पणः विधमित्येवं वक्तुं युक्तम् । तथाहि हरिणा
"तयोरेभ्यस्त्रिधा मतम् । तच्चेप्सिततमम्"इत्यादिना पार्थक्येन विभजनात् तदनुसृत्याऽत्रापि तथैवोक्तमिति ध्येयम् ॥ *प्रा. प्यत्वञ्चेति* ॥ आद्ययोर्लक्षणे तु सुबर्थनिर्णये वक्ष्यते ॥ *वक्ष्यत इति* ॥ क्रियाकृतविशेषाणामिति कारिकयेत्यर्थः। कर्मगतविशेषाधायकक्रियार्थकत्वं कर्मस्थक्रियकत्वं कर्मवद्भावप्रयोजकमिति दर्शयितुं तदन्वयव्यतिरेको दर्शयति-* न हीत्यादि* ॥ *सोमं सुनोतीति विकार्य इति* ॥ नन्वाद्ययोः कर्मस्थक्रियकत्वेन कर्मवद्भावविषयत्वेऽपि तत्र कथं सोमं सुनोतीत्यस्य विकार्यलक्षणाक्रान्तत्वम् । प्रकृतेः सोमस्य परिणामित्वाऽनवगमात् । तदुक्तम् –'प्रकृतेस्तु विवक्षायां विकार्य्यम्' इति । विवक्षायामित्यस्य परिणामित्वेनेत्यादिरिति चेदित्थं चूर्णीकरणरूपाऽभिषवैकदेशचूर्ण प्रति प्रकृतिसोमस्य परिणामित्वविवक्षया तदुपपत्तिः । ____ अन्ये तु-क्रिया यद्धर्मनाशकं फलं जनयति तद्विकार्यमिति लक्षणाऽभिप्रायेण सोमे विकार्यनिर्देशः। तथाहि-आरम्भकसंयोगनाशकविभागानुकूला क्रिया सुनोतेरर्थः। सोमपदं च प्रकृते तदवयवे लाक्षणिकम् । तथाच होमावयवरूपसोमपदार्थवृत्यारम्भकसंयोगस्य धात्वर्थक्रियाजन्यविभागेन नाशाद्विकार्य्यत्वोपपत्तिरित्याहुः । ____ *ज्ञातुं शक्यमिति ॥ एतेन क्रियाकृतविशेषधर्मप्रकारकप्रतीतियोग्यत्वं कर्मवद्भाव. प्रयोजकमित्युक्तं भवति। प्राचीननैयायिकमते तु प्रकृते कृज उत्पत्तिरूपफलावच्छिन्ने यत्ने लक्षणयाकर्मवदावोपपत्तिः ॥ *नोक्तातिप्रसङ्ग इति* ॥ न कर्मवदावापत्तिरित्यर्थः ।
प्राचीननैयायिकमते तु ज्ञानं करोतीत्याद्यप्रयोगात् साध्यत्वे फले यत्ने च कृतः शक्तिरेव। तथाच घटादौ साध्यत्वरूपविशेषधर्मप्रकारकप्रतीतेः सार्वजनीनत्वात् ,
परीक्षा स्थिता याशी सत्ता कर्मणस्तदपेक्षया व्यापारोत्पत्यनन्तरं कर्मस्वरूपावस्थायास्तादृशत्वमेव यत्र, तत्र न कर्मवद्भाव दति फलितोऽर्थः । ईप्सितस्यैव त्रैविध्यप्रदर्शनम्, हरिणा ईप्सितकर्मापेक्षयाऽनोप्सितयोद्वेष्योदासीनयोः पार्थक्यं वर्णितम् । तदभिप्रायेण । वस्तुतस्तु तयोरपि उक्तेष्वन्तर्भावः सम्भवतिः निर्वादीनां स्वरूपनिर्णयोऽग्रे भविष्यति। तथाच कर्मगतो यो विशेषो व्यवहारयोग्यस्तत्प्रयोजकव्यापारार्थको यो धातुस्तत्कर्मणः कर्त्तत्वविवक्षायां कर्मवद्भाव इति सिद्धम् । तदेतस्पष्टतया बोधयितुमन्वयव्यतिरेकावाह-*न ह्ययमित्यादिना । अत्रेदमवधेयम्करोतेर्यत्नमात्रार्थकत्वे या कर्मवभावानुपपत्तिर्वर्णिताः सा शक्यार्थमादायैव, यदि तूत्पत्यनुकूलव्यापारे लक्षणा प्राचीननैयायिकानुसारिभिरभ्युपेयते तदा तेषामपि मते नानुपपत्तिः । किञ्च फलव्यापारोभयोर्वाच्यताया नव्यनैयायिकैः स्वीकारा