________________
३८८ ]
संख्यावाचि
[ हैम-शब्दानुशासनस्य
नदीवाचिभिः सह समाहारे गम्ये
समासो ऽव्ययीभावः स्यात् । द्वियमुनम् पञ्चनदम् ।
समाहारेति किम् ? एकनदी | द्विगु - बाधनार्थं वचनम् ॥ २८ ॥
वंश्येन पूर्वार्थे । ३ । १ । २९ ।
विद्यया - जन्मना वा एकसन्तानो =
तत्र भवो
वंश्यः ।
तद्वाचिना नाम्ना संख्यावाचिसमासो
वंशः ।
अव्ययीभावः स्यात्, पूर्वपदस्यार्थे वाच्ये ।