SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ स्फोटनिर्णयः। सावच्छेदकं वैजात्यमादायैव ककार इत्यादिप्रत्ययस्तार इत्या. दिवत् । स्पष्ट हि भामत्यां तारत्वादि वायुनिष्ठ वर्णेष्वारोप्य. तइति देवताधिकरणोभिहितम् । असिंश्च पक्षद्वये वर्णाप्यना. . वश्यका इति चोक्तं शब्दकौस्तुभे । तथा च प्रत्यक्षाद्वाचकत्वान्यथानुपपत्त्या तदेवेदं पदं तदेवेदं वाक्यमिति प्रतीत्या चाखण्डस्फोटः सिध्यतीति ध्येयम् । यन्तु प्रथमाध्यायप्रथमचरणे उ. क्तमनुव्याख्याने । 'शक्तिश्चैवान्विते स्वार्थे शन्दानामनुभूयते । अतोन्विताभिधायित्वं गौरवं कल्पनेन्यथेति । व्यवहारेणान्विते एव शक्तिरनुभूयते । पदानामिति त्यक्त्वा शब्दानामित्युक्तिः प्रकृतिप्रत्ययोरप्यन्विताभिधानमिति बोधयितुम् । परमतं दूषय. ति । गौरवमिति । अन्यथाकल्पने वाक्यं वाक्यार्थबोधकमिति कल्पने गौरवमिति वाक्यमेवाखण्डं कल्पनीयम् । तस्यार्थप्रत्यायनशक्तिश्च कल्पनीयेति गौरवमिति भाव इति जयतीर्थः । तत्तुच्छम् । अर्थप्रतीत्यायन्यथानुपपत्त्या तस्यावश्यकल्प्यत्वात् । अन्वितशक्तेश्च स्फुटतरं प्रानिषिद्धत्वात् । किं च गौरवं तवैव विपरीतम् । अनन्तवर्णादेः कल्पनात् । यत्त्ववाह जयती. र्थो नार्थप्रतीत्यन्यथानुपपत्त्या तत्सिद्धिः । तथाहि । किमयं स्वरूपतोर्थप्रत्यायकः प्रतीतो वा । नाद्यः । सर्वदार्थबोधापत्तेः । अन्त्ये किमनयानुपप त्या तत्प्रतीतिरुत प्रमाणांतरेण नाद्यः । अन्योन्याश्रयात् । प्रतीते स्फोटे अर्थप्रतीतिस्तया च तत्कल्पनमिति । नान्त्यः । प्रमाणान्तराभावात् । एकं पदमेकं वाक्यं शृणोमीति प्रत्यक्षेण तद्रह इति चेन्न । विचार्यतां ताई किमयं प्रत्ययो वर्णानदगाहते न वेति । आधे ऽस्तु तेषामेव वाचकता । आवश्यकत्वात् । अन्त्ये प्रतीतिबाध एवेति । तदशु- ' द्धम । एक पदमित्यादेवर्णविषयस्यापि तत्रोक्तरीत्या मानत्वोप ४ .
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy