SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २६९ वैयाकरणभूषणे । व्य इतिवच्छोमनश्च द्रष्टव्य इत्यस्याप्यापत्तरिति भावः । अथ वृक्षावित्यत्र द्वित्वं ब्रुवन् प्रत्ययो यथा परविशेषणत्वेनैव ब्रूते त. द्वनचकारादिः समुच्चयं वदन्परविशेषणत्वेनैव ब्रूते इति न वि. शेषणान्वय इति चेत्र । प्रत्ययानां प्रकृत्यर्थगतस्वार्थबोधकव्यु. त्पत्तेस्तत्र तथास्तु अन च स्वातन्त्र्येण पदादुपस्थितिसत्त्वाद्विवेषणान्वयो दुार एवेति भावादिति । किं च । निपातानां वाचकत्वे विना षष्ठीमनम्बयप्रसङ्गः प्रातिपदिकार्थयोर्विना विभ. क्तर्य भेदेनान्वयायोगात् । अन्यथा राजा पुरुष इत्यत्रापि राज्ञः पुरुष इतिवदन्वयापत्तरित्यभिप्रेत्य तदेवाह । आदीति । धवखदिरयोः समुच्चय इतिवद्धवस्य च खदिरस्य चेत्येव स्यादन्यथान्वयायोगादिति भावः । यतु चादीनां समुच्चिताभिधा. यकत्वमेव नातो भेदनिवन्धना षष्ठी। तथा च यः समुचितः स घट इति मभेदेनैवान्वयः। न चैवं सत्त्वार्थत्वाद्विभाक्तिश्रवणापत्तिः । स्वभावात्समुचितपदाभिधेयस्य सन्त्वरूपत्वं न चायुपस्थाप्यस्येति सम्भवात् । यथा धातूपस्थाप्याया असत्यार्थत्वं घायुपस्थाप्यायाश्च सन्त्वार्थत्वमिति समाधिमाहुः । तन्न । समुच्चिते धयंशेन्यलभ्यत्वाच्चकारशक्तिकल्पनायोगात् । ष. टीवारणाय तथा कल्प्यतइति चेन्न । द्योतकत्वेनापि तदुपपत्तेः। एतेन समुच्चयस्यैकदेशत्वात्पदार्थः पदार्थेन सम्बध्यते इति न्यायान भूयानित्यादिविशेषणान्वयापत्तिरिति पूर्वोक्तं दूषणमलनकमिति निरस्तम् ॥ ४३ ॥ ननु प्रातिपदिकार्थयोर्भेदेनान्वयबोधे विभक्तिजन्योपस्थितिहेतुरिति व्युत्पत्तिनिपानातिरिक्तविषयैवेति नोक्तदोष इत्याशङ्कयाह ॥ पदार्थः सदृशान्वेति विभागेन कदापि न ।
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy