SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ निपातार्थनिर्णयः । - २६१ न्धेन साक्षात्कारस्तदुत्पत्त्यनुकूलो व्यापार इत्यादिबोधः । न च साक्षात्पदस्य साक्षात्काराद्यर्थवत्वे न मानामिति शङ्कयम् । 'साक्षात्प्रत्यक्ष तुल्ययोरिति' 'अलं भूषणपर्याप्तिशक्तिवारणवाचक' मिति, 'उर्दूरी चोररी च विस्तारेङ्गीकृतौ त्रय' मिति चामरात् । नमः पदस्य नमस्काराद्यर्थकत्वस्य लोके च प्रसिद्धत्वात् । नन्वर्थाविशेषान्तर्भावेणाकर्मकत्वादिविभजनादत्रालङ्काराद्यर्थे कथं कर्मणि लकार इति चेन्न । फळव्यधिकरणव्यापारवाचकत्वस्यैव सकर्मकत्वात् । सर्वस्य व्यापारस्य यत्किञ्चित्फलस1 मानाधिकरणत्वात्स्वार्थफलव्यधिकरणव्यापारवाचित्वं तत्त्वम् । तथा चोपासनादेर्धात्वर्थत्वे ऽर्थादेषां द्योतकत्वमिति चेन्न । स्वस्वयुक्तनिपातान्यतरार्थफलव्यधिकरणव्यापारवाचित्वस्य स - कर्मकत्वात् । कर्मत्वमप्येतादृशफलाश्रयत्वमेव । इत्थं च क र्मणि लकारसम्भवान्नानयोपपत्त्या द्योतकत्वासिद्धिः । एवं दृष्टान्तेप्युपपदस्योपासनार्थकत्वान्नानुपपत्तिरिति चे, न्मैवम् । साक्षात्पदायर्थ साक्षात्कारस्य धात्वर्थे साक्षादन्वयायोगात् । अभेदातिरिक्तसम्बन्धेन नामार्थप्रकार कशाब्दबोधं प्रति प्रत्ययजन्योपस्थितेर्हेतुताया ओदनः पचतीत्यत्र कर्मत्व संसर्गेणान्वयवारणाय वाच्यत्वात् । स्तोकं पचतीत्यत्रेवाभेदान्वयस्तु यदि साक्षात्कारादेर्धात्वर्थत्वं तदा स्यात् । तथा सति च साक्षापदस्यापि तद्वाचकत्वे मानाभावाद् द्योतकत्वमेव वाच्यम् । अनुशासनं च योत्यार्थवत्वमादाय नानुपपन्नमिति ध्येयम् । अपि च । प्रादीनां वाचकत्वे भूयान्प्रकशो निश्चय इतिवद्भूयान् कीदृशो निरित्यपि स्यात् । अस्मन्मते च प्रादेरनर्थकत्वान्न तदन्वय इत्यत एव प्रादयो द्योतका भविष्यन्तीत्यपि चादिषु सममित्याह । विशेषणेत्यादि । शोभनः समुचयो द्रष्ट
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy