SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ (५०) नपुंसकानामन्यान्यतरेतर-डतर-डतमानां पञ्चानां सम्बन्धिनोः स्यमोः स्थाने द् स्याद् , एकतरं वर्जयित्वा । अन्यद् अन्ये अन्यानि। अन्यद् अन्ये अन्यानि । अन्यतरद् अन्यतरे अन्यतराणि । अन्यतरद अन्यतरे अन्यतराणि । इतरद् इतरे इतराणि । इतरद इतरे इतराणि । कतरद् कतरे कतराणि । कतरद् कतरे कतराणि । कतमद् कतमे कतमानि । कतमद् कतमे कतमानि । सम्बोधनेऽपि हे कतमद् इत्यादयः। अत्र सिस्थानीयस्यामो लुम्विधानात् 'अदेतः स्यमोटुक्' इति लुग् न भवति । शेषं सर्ववत् ॥ प्रथमं प्रथमे प्रथमानि । द्वितीयं द्वितीये द्वितीयानि । द्वयं द्वये द्वयानि । चरमं . चरमे चरमाणि । एकतरम् एकतरे एकतराणि इत्यादयः॥ इकारान्तो नपुंसकलिङ्गोऽस्थिशब्दः- अस्थि+सि इति स्थिते अनतो लुप् । १ । ४ । ५९। अकारान्तभिन्नस्य नपुंसकस्य सम्बन्धिनोः स्यमोलुप् स्यात् । अस्थि । अस्थि+औ अत्र औ इत्यस्य 'औरीः' इत्यनेन ईकारादेशे। अनाम्स्वरे नोऽन्तः । १ । ४ । ६४ । नाम्यन्तस्य नपुंसकस्य आम्वर्जस्वरादौ स्यादौ परे नोऽन्तः स्यात् । अस्थिनी । अस्थि+जस् इति स्थिते 'जस्शसोः शिः 'स्वराच्छौ' 'नि दीर्घः' इत्येतैः अस्थीनि । पुनरपि अस्थि अस्थिनी अस्थीनि । अस्थि+टा इति स्थिते
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy