________________
(४१७)
। इदमाधर्यनिरूपणम् । इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् ॥ ६ ॥ .
। अनुस्वारनिरूपणम् । नकारजावनुस्वारपञ्चमौ धुटि धातुषु । सकारजः शकारश्च ट्टिवर्गस्तवर्गजः ॥ ७ ॥
।धात्वर्थविशेषनिरूपणम् । उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहारसंहारप्रहारप्रतिहारवत् ॥ ८ ॥ धास्वर्थो बाधते कश्चित् कश्चित् तमनुवर्तते । तमेव विशिनष्ट्यन्योऽनर्थकोऽन्यः प्रयुज्यते ॥९॥
।अकर्मकत्वनिरूपणम् । फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः ॥ १० ॥ धातोरर्थान्तरे वृत्तेर्धात्वर्थेनो संग्रहात् । प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ ११ ॥
। द्विकर्मकगणनानिरूपणम् । नीहवहिकृषो ण्यन्ता दुहिपृच्छिभिक्षिचिरुधिशास्वर्थाः । पचियाचिदण्डिकृग्रहमथिजिप्रमुखा द्विकर्माणः ॥ १२॥ 27