________________
( ३९८)
पञ्चम्या त्वरायाम् । ५ । ४ । ७७। त्वरा औत्सुक्यम् , तस्यां गम्यमानायां पञ्चम्यन्तेन योगे तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः धातोः सम्बन्धे णम् वा भवति । शय्याया उत्थायं शय्योत्थायं धावति । पक्षे शय्याया उत्थाय धावति ।
द्वितीयया । ५। ४ । ७८ । द्वितीयान्तेन योगे तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः सम्बन्धे णम् वा भवति त्वरायां गलायाम् । लोष्ठान् ग्राहं लोष्ठयाहं युध्यन्ते । एवं यष्टीः ग्राहं यष्टिग्राहं युध्यन्ते । दण्डमुद्यामं दण्डो.. द्यामं धावति। एवं योद्धं त्वरन्ते यदायुधग्रहणमपि नाद्रियन्ते। यत्किश्चिदासन्नं तद् गृह्णन्ति । पक्षे लोष्ठान् गृहीत्वा युध्यन्ते इत्यादि ।
___ स्वाङ्गेनाध्रुवेण । ५।४ । ७९ । व्याकरणशास्त्रोक्तं स्वाङ्गमत्र ग्राह्यम् 'अविकारोऽद्रवमित्यादिलक्षणम् , यस्मिन्नङ्गे च्छिन्ने प्राणी न म्रियते तदध्रुवम् , अध्रुवेण स्वाङ्गेन द्वितीयान्तेन योगे सति तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः सम्बन्धे सति णम् वा भवति । भ्रवौ विक्षेपं भ्रूविक्षेप जल्पति । अक्षिणी निकाणम् अक्षिनिकाणं हसति । केशान् परिधायं केशपरिधायं नृत्यति। पक्षे ध्रुवौ विक्षिप्य जल्पति । स्वाङ्गेनेति किम् ? कफमुन्मूल्य जल्पति । अध्रुवेणेति किम् ? शिरः उत्क्षिप्य कथयति ।