________________
( ३९६) उपमानार्थाद् व्याप्यात् कर्तुश्च पराद धातोः तस्यैव सम्बन्धे णम् वा भवति । सुवर्णनिधायं निहितः सुवणमिव निहित इत्यर्थः । रत्ननिधायं निहितः । ओदनपाकं पक्वः । कर्तुः काकनाशं नष्टः । काक इव नष्ट इत्यर्थः । जमालिनाशं नष्टः । अभ्रविलायं विलीनः अभ्रमिव विलीन इत्यर्थः ।
उपात् किरो लवने । ५ । ४ । ७२ । लवनेऽर्थे वर्तमानादुपपूर्वात् किरतेः अन्यधातोः सम्बन्धे णम् वा भवति । लवनग्रहणात् तस्यैव संबन्धे इति निवृत्तम् । उपस्कारं मद्रका लुनान्ति विक्षिपन्तः लुनन्ति इत्यर्थः । ।
दशेस्तृतीयया । ५ । ४ । ७३ । तुल्यकर्तृकेऽर्थे वर्तमानादुपपूर्वाद दंशेस्तृतीयान्तेन योगे सति 'अन्यस्य धातोः सम्बन्धे सति णम् वा भवति । मूलकेनोपदंशं मुङ्क्ते । अत्र ' तृतीयोक्तं वा ' इति समासस्य विकल्पनाद मूलकोपदंशं भुङ्क्ते इत्यपि । पक्षे मूलकेनोपदश्य भुङ्क्ते । एवमाको पदंशम् , आर्द्रकेणोपदंशम् , आर्द्रकमुपदश्य भुङ्क्ते इत्यादि।
हिंसा देकाप्यात् । ५ । ४।७४ । 1. हिंसाद् धातोः सम्बध्यमानेन धातुना सहैकाप्यात् तृतीयान्तेन योगे तुल्यकर्तृकेऽर्थे वर्तमानाद् णम् वा भवति । दण्डेनोपघातं दण्डोपघातं गाः सादयति । खड्नेन प्रहारं खड्गप्रहारं शत्रून् विज