SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ (३८८ ) दुःखेन क्रियते इति दुष्करः, ईषत्करः कटो भवता । दुष्करम् , सुकरम् , ईषत्करं भवता । च्च्यर्थे क प्याद् भूकृगः । ५।३।१४० । . कृच्छ्राकृच्छ्रार्थेभ्यो दुःस्वीषद्भ्यः पराभ्यां च्यर्थे वर्तमानाभ्यां कर्तृकर्मवाचिभ्यां शब्दाभ्यां पराभ्यां यथासंख्यं भूकृग्भ्यां परः खल् प्रत्ययो भवति । दुःखेनानाढ्येनाढ्येन भूयते दुराड्यंभवं त्वया। सुखेनानाढ्येनाढ्येन भूयते स्वाड्यंभवं मया । ईषदाढ्यंभवं भवता । दुःखेनानाढ्यः आढ्यः क्रियते दुराढ्यंकरः मैत्रो भवता । सुखेनानाढ्यः आढ्यः क्रियते स्वाढ्यंकरो मैत्रो भवता । ईपदाढ्यंकरो मैत्रो भवता । वीरणानि सुखेनाकटः कटः क्रियन्ते इति सुकटंकराणि वौरणानि । मृत् सुखेनाघटः घटः क्रियते इति सुघटकरा मृद् । च्व्यर्थ इति किम् ? दुराढ्येन भूयते । स्वाड्येन भूयते । ईषदाढ्येन भूयते । आढ्य एव किञ्चिद् विशेषमापद्यते । एवं दुराढ्यः क्रियते। शासूयुधिदृशिधृषिमृषातोऽनः । ५ । ३ । १४१ ।। कृच्छ्राकृच्छ्रार्थकदुःस्वीषत्पूर्वेभ्यः शासूप्रभृतिभ्य आदन्तेभ्यश्च धातुभ्यो भावकर्मणोरनः प्रत्ययो भवति । दुःखेन शिष्यते इति दुःशासनः । सुखेन शिष्यते सुशासनः । ईषच्छासनः । एवं दुर्योधनः । दुर्दर्शनः । दुर्धर्षणः । दुर्मर्षणः । आदन्तः दुरुत्थानं त्वया । सूत्थानं चैत्रेण । ईषदुत्थानं भवता । दुष्पानं दुग्धं कण्ठरोगवता । सुपानं पयः भवता । ईषत्पानमित्यादि ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy