SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ ( ३७३) न्यभ्युपाश्चोत् । ५।३। ४२ । नि-अभि-उप-विभ्यः पराद् हुयतेः भावाकोरल्, तत्संनियोगे च वाशब्दस्य उकारो भवति । निहवः । अभिहवः । उपहवः । विहवः । अन्यत्र प्रह्वायः । आछो युद्धे । ५ । ३।४३। ____ आपूर्वाद् ह्वयतेः युद्धेऽर्थे भावाकोंः अल् भवति, वाशब्दस्य चोकारः । आहूयन्ते योद्धारो यस्मिन् आहवः युद्धम् । आहावो निपानम् । ५।३। ४४ । निपिबन्त्यस्मिन्निति निपानम् पशु-शकुनीनां पानार्थं कृतः जलाधारः । आपूर्वाद् हुयतेः भावाकोरल आहावादेशश्च निपात्यते निपानेऽभिधेये । आहूयन्ते पशवः पानार्थ यस्मिन्नित्याहाकः पशूनाम् । आहावः शकुनीनाम् निपानमित्यर्थः । अन्यत्र आहायः । भावेऽनुपसर्गात् । ५ । ३ । ४५ । . अनुपसर्गाद् हुयतेः भावेऽल् प्रत्ययः, वाशब्दस्य चोकारो भवति । अकर्तरीत्यस्यानुप्रवेशनिषेधार्थ भाव इति । हानं हवः । कर्मणि हायः, उपसर्गादपि आह्वानम् आहायः । ____ हनो वा वध् च । ५।३ । ४६ । अनुपसर्गाद् हन्तेर्भावेऽल् वा भवति । तत्सन्नियोगे चास्य वधादेशः । हननं वधः, घातः । अनुपसर्गादित्येव संघातः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy