________________
(३६२) ___ एभ्यः शः प्रत्ययो भवति । पांक रक्षणे पाशः बन्धनम् । डुदांग्क् दाने दाशः कैवर्तः । टुवमू उद्गिरणे वंशः वेणुः । अम गतौ अंशः भागः ॥ ५२७ ॥
कृ--भृ-निभ्यः कित् ।। ५२८ ॥ एभ्यः कित् शः प्रत्ययो भवति । डुकंग करणे कृशः तनुः । वृगट वरणे वृशं शृङ्गवेरं मूलकं लशूनं च । डुडु,गक पोषणे च भृशम् अत्यर्थम् । वन भक्तौ वशः आयत्तः ॥ ५२८ ॥
कोर्वा ॥ ५२९ ॥ __कुंङ शब्दे इत्यस्मात् शः प्रत्ययः, स च किद् वा भवति । कुशः दर्भः । कोशः सारं कुड्मलं च ॥ ५२९ ॥
क्लिशः के च ॥ ५३०॥ क्लिशौश् विबाधने इत्यस्मात् शः प्रत्ययः, अस्य च के इत्यादेशो भवति । केशाः मूर्धना- ॥ ५३० ॥
कलेष्टित् ॥ ५३२॥ कलि शब्दसंख्यानयोरित्यस्मात् टिद् अशक् प्रत्ययो भवति। कलशः कुम्भः । कलशी दधिमन्थनभाजनम् ॥ ५३२ ॥
पलेराशः ॥ ५३३ ॥ पल गतावित्यस्मादाशः प्रत्ययो भवति । पलाशः ब्रह्मवृक्षः ॥ ५३३ ॥
कनेरीश्चातः ॥ ५३४॥