SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ ( ३४५) कृशृगृशलिकलिकडिगर्दिरासिरमिवडिवल्लेरभः ॥ ३२९ ॥ एभ्योऽभः प्रत्ययो भवति । कृत् विक्षेपे करभः त्रिवर्षः उष्ट्रः । शश् हिंसायां शरभः श्वापदविशेषः । गत् निगरणे गरभः उदरस्थो जन्तुः । पल फल शल गतौ शलभः पतङ्गः। कलि शब्दसंख्यानयोः कलभ यौवनाभिमुखो हस्ती। कडत् मदे कडभः हस्तिपोतकः । गर्द शब्दे गर्दभः खरः । रासृङ् शब्दे रासभः खरः । रमिं क्रीडायां रमभः प्रहर्षः । वड: सौत्रो धातुः वडभी वेश्माग्रभूमिका, लत्वे च वलभी। वल्लि संवरणे वल्लभः स्वामी दयितश्च ॥ ३२९ ॥ ऋषि-वृषि-लुसिभ्यः कित् ॥ ३३१ ॥ एभ्यः किदभः प्रत्ययो भवति । ऋषैत् गतौ, वू सेचने ऋषभः, वृपभश्च पुङ्गवः भगवांश्चादितीर्थङ्करः । ऋषभः वायुः । लुसिः सौत्रः लुसभः हिंस्रः मत्तहस्ती वनं च ॥ ३३१ ॥ सि-टिफिभ्या मभः सैर-टिटौ च ॥ ३३२ ॥ . आभ्यामिभः प्रत्ययो भवति, दन्त्यादिः सैरः टिदृश्चादेशी यथासंख्यं भवतः । पिंगट बन्धने सैरिभः महिषः । टिकि गतौ टिट्टिभः पक्षी ॥ ३३२ ॥ अर्तीहि मुहुरक्षियक्षिभावाव्याधापायावलिपदिनी भ्या मः ॥ ३३८ ॥
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy