________________
( ३४२) . विष्टपादयः शब्दाः फिदपप्रत्ययान्ता निपात्यन्ते । विषेस्तोऽन्तश्च । विष्टपं जगत् सुकृतिनां स्थानं च । वलेरुल च उलपं पर्वततृणं पङ्कनं जलं च । उलपः ऋषिः । वातेस्तोऽन्तश्च वातपः ऋषिः । आदिग्रहणात् खरपादयो भवन्ति ॥ ३०७ ॥
कलेरापः ॥ ३०८॥ कलि शब्दसंख्यानयोः इत्यस्माद आपः प्रत्ययो भवति । कलापः काञ्ची समूहः शिखण्डश्च ॥ ३०८ ॥
दलेरी दिल् च ।। ३१०॥ दल विशरणे इत्यस्मादीपः प्रत्ययो भवति, दिल् चास्यादेशः । दिलीपः राजा ॥ ३१० ॥
___ उडेरुपक् ॥ ३११ ॥ उड् संघाते इत्यस्मात् सौत्रादुष्क प्रत्ययो भवति । उडुपः प्लवः । जपादित्व द् वत्वं उड्डुवः ॥ ३११ ॥
____अश ऊपः पश्च ॥ ३१२ ॥ अशौटि व्याप्तौ इत्यस्माद् ऊपः प्रत्ययः, पश्चान्तादेशो भवति । अपूपः पक्वान्नविशेषः ॥ ३१२ ॥
सर्तेः षपः । ३१३ ॥ सं गतौ इत्यस्मात् षपः प्रत्ययो भवति । सर्षपः रक्षोघ्नं द्रव्यं शाकं च ॥ ३१३ ॥
री-शंभ्यां फः ॥ ३१४ ॥