SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ( ३३५ ) भवति । निशीयः अर्धरात्रः रात्रिः प्रदोषश्च । उच्छीथः स्वप्नः टिट्टिभश्च ॥ २२८ ॥ सं गतौ ॥ २३० ॥ सर्तेर्णित् ॥ २३० ॥ इत्यस्मात् णित् थः प्रत्ययो भवति । सार्थः समूहः 1 पथयूथगूथ कुथतिथनिथसूरथादयः ॥ २३९ ॥ एते थान्ता निपात्यन्ते । पलते: लो लुक् च पथः पन्थाः । यौतेर्गुवश्च दीर्घश्च यूथं समूहः । गूथम् अमेध्यं विष्ठा च । किरतेः करोतेर्वा कुश्च कुथः कुथा वा आस्तरणम् । तनोतेः तिष्ठतेर्वा तिश्व तिथः कालः । तिम्यतेः तिथः प्रावृट्कालः । नयतेः हस्वश्च निथः पूर्वक्षत्रियः कालश्च । सुपूर्वाद् रमेः सूरथः दान्तः ॥ २३१ ॥ भृशीशपिशमिग मिरमिवन्दिवञ्चिजीविमाणिभ्योऽथः ॥२३२॥ एभ्यः अथः प्रत्ययो भवति । टुडुभृंगक् पोषणे च भरथः कैकेयीसुतः अग्निः लोकपालय । शीकू स्वप्ने शयथः अजगरः प्रदोषः मत्स्यः वराहश्च । शपीं आक्रोशे शपथः प्रत्ययकरणमाकोशश्च । शमृच् उपशमे शमथः समाधिः आश्रमपदं च । गम्लं गतौ गमथः पन्थाः पथिकश्च । रमिं क्रीडायां रमथः प्रहर्षः । वदुङ् स्तुत्यभिवादनयोः वन्दयः स्तोता स्तुत्यश्च । कन्चू गतौ वञ्चयः अध्वा कोकिलः काकः दम्भश्च । जीव प्राणधारणे जीवथः
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy