SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ ( ३३२) एभ्यो धातुभ्य आणक् प्रत्ययो भवति । कृपौङ् सामर्थ्य कृपाणः खड्गः । विषू सेचने विषाणं शृङ्ग करिदन्तश्च । वृषू सेचने वृषाणः। निषाट् प्रागल्भ्ये धषाणः देवः । मृषू सहने च मृषाणः। युषि सेवने सौत्रो धातुः युषाणः । द्रुहौच निघांसायां छैहाणः मुखरः । ग्रहीश् उपादाने गृहाणः । विषाणादयः स्वप्रकृत्यर्थवाचिनः कर्तरि कारके ज्ञेयाः । १९१ ॥ पषो णित् ॥ १९२ ॥ पषी बाधनस्पर्शनयोः इत्यस्माद् आणक् प्रत्ययः, स च णिद भवति । पाषाणः प्रस्तरः ॥ १९२ ॥ सु-सि-तनि-तुसेर्दीर्घश्व वा ॥ २०३ ॥ ... एभ्यः कित् तः प्रत्ययो दीर्घश्च वा भवति । डुंगट अभिषवे सूतः सारथिः । सुतः पुत्रः । पिंग्ट बन्धने सीता जनकात्मना सस्यं हलमार्गश्च । सितः वर्णः बन्धश्च । तनूयी विस्तारे तातः पिता पुत्रेष्टनाम च । ततं विस्तीर्ण वाद्यविशेषश्च । तुस् शब्दे सूस्तानि वस्त्रदशाः । तुस्ता: जटाः प्रदीपनं च ॥ २०३ ॥ हृ-श्या-रुहि-शोणि-पलिभ्य इतः ॥ २१० ॥ एभ्य इतः प्रत्ययो भवति । हंग हरणे हरितः वर्णः । श्यैङ गतौ श्येतः वर्णः मृगः मत्स्यः श्येनश्च । रुहं बीजजन्मनि रोहित: वर्णः मत्स्यः मृगजातिश्च लत्वे लोहितः वर्णः । लोहितम् अस्क। शोण वर्णगत्योः शोणितं रुधिरम् । पल गतौ पलितं श्वेतकेशः॥२१०
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy