SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ ( ३२९ ) नरसि जरठः कठोरः । शुश् हिंसायां शरठः आयुधं पापं क्रीडनशीलश्च । कमूङ् कान्तौ कमठः भिक्षाभाजन कूर्मास्थि कच्छंपः मयूरः वामनश्च । अम गतौ अमठः प्रकर्षगतिः । रमिं क्रीडायां रमठः देशः कृमिजातिः क्रीडनशीलः म्लेच्छः देवश्च विलातानाम् । रप व्यक्ते वचने रपठः विद्वान् मण्डूकश्च ॥ १६७॥ पश्चमात् डः ।। १६८ ॥ पञ्चमान्ताद् धातोः डः प्रत्ययो भवति । षण भक्तौ षण्डः वनं वृषभश्च । भण शब्दे भण्डः प्रहसनकरः बन्दी च । चण शब्दे चण्डः क्रूरः । पणि व्यवहारस्तुत्योः पण्डः शण्ठः । गणण् संख्याने गण्ड : पौरुषयुक्तः पुरुषः । मण शब्दे मण्डः रश्मिः अग्रम् अन्नविकारश्च । वन भक्तौ वण्डः अल्पशेफः निश्वर्माशिनश्च । शमू दमूच् उपशमे शण्डः उत्सृष्टः पशुः ऋषिश्च । दण्डः वनस्पतिप्रतानः राजशासनं नालं प्रहरणं च । रमिं क्रीडायां रण्ड: पुरुषः, रण्डा स्त्री, रण्डमन्तःकरणम् एतत् त्रयमपि स्वसम्बन्धिशुन्यमेवमुच्यते । तमेस्तनेर्वा तण्डः ऋषिः । वितण्डा तृतीयकथा गमेः गण्डः कपोलः । भामि क्रोधे भाण्डमुपस्करः ॥ १६८ ॥ कुगुहुनीकुणितुणिपुणिमुणिशुन्यादिभ्यः कित् ॥ १७० ॥ एभ्यो धातुभ्यः किद् डः प्रत्ययो भवति । कुङ् शब्दे कुडः घटः हलं च । गुंङ शब्दे गुडः गोल: इक्षुविकारश्च । गुडा सन्नाहः । डुंक् दानादनयोः हुडः मूर्खः मेषश्च । णींग् प्रापणे नीडं कुलायः ॥
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy