________________
( २९८ )
वर्तमानार्थाद् धातोः शत्रानशौ भवतः, भविष्यति तु स्ययुक्तौ भवतः । गच्छतीति गच्छन् । यातीति यान् । शेते इति शयानः । पचमानः । गमिष्यतीति गमिष्यन् । यास्यन् । शयिष्यमाणः । पक्ष्यमाणः । ' माङ्युपपदे आक्रोशेऽपि वक्तव्यौ' मा पचन् वृषल ! ज्ञास्यसि । मा पचमानोऽसौ मर्तुकामः ।
वा वेत्तेः क्वसुः । ५ । २ । २२ । वर्तमानार्थाद् वेत्तेः क्वसुर्वा भवति । वेत्तीति विद्वान्, विदन्
1
तत्त्वम् ।
पूङ् - यजः शानः । ५ । २ । २३ । आभ्यां वर्तमानार्थाभ्यां परः शानः प्रत्ययो भवति । पवते इति पवमानः । यजमानः ।
वयः - शक्ति-शीले । ५ । २ । २४ । वर्तमानार्थाद् वातोः परः शानो भवति, एषु अर्येषु गम्येषु । स्त्रियं गच्छमानः । समश्नानः । निन्दमानः ।
धारी ङोऽकृच्छ्रेऽतुश् । ९ । २ । २५ । वर्तमानार्थाद् वारेरिङश्च परः अकृच्छ्रेऽर्थेऽदृश् प्रत्ययो भवति । धारयन् आचाराङ्गम् । अधीयन् ।
सुद्विषाईः सत्रिशत्रुस्तुत्ये । ५ । २ । २६ । वर्तमानार्थेभ्य एभ्यो यथासंख्यं सत्रिशत्रुस्तुत्येऽर्थे कर्तरि अश् प्रत्ययो भवति । सर्वे सुन्वन्तः । चौरं द्विषन् । पूजामर्हन् ।
1