________________
( २७९.) गुणवृद्धीन भवतः।नेन्यः । चेच्यः । मरीमृजः । 'ब्रूगोऽचि ब्रुवादेशो वक्तव्यः' ब्राह्मणब्रुवः ।
नन्द्यादिभ्योऽनः ।५।१। ५२ . . . . . एभ्यो गणदृष्टेभ्यः कर्तर्यनः प्रत्ययो भवति । नन्दनः । वाशनः । सहनः । संक्रन्दनः । सर्वदमनः । नर्दनः ।
ग्रहादिभ्यो णिन् । ५ । १ । ५३ । एभ्यः कर्तरि णिन् प्रत्ययो भवति । ग्राही । स्थायी । दायी।
नाम्युपान्त्यप्रीकृगृज्ञः कः । ५। १ । ५४ ।
नाम्युपान्त्येभ्यः प्रीकृगाभ्यश्च कर्तरि को भवति । विक्षिपः। प्रियः । किरः । गिलः । ज्ञः ।
गेहे ग्रहः।५।१।५५ । गेहेऽर्थे वाच्ये ग्रहधातोः कः प्रत्ययो भवति । गृहम् । गृहाः दारा इत्यर्थः । ..
उपसर्गादातो डोऽश्यः । ५।१।५६। श्यैवर्जितादुपसर्गात् परादादन्ताद् धातोः डः प्रत्ययो भवति । आह्वः । प्रह्वः । उपसर्गादिति किम् ? दायः । अश्य इति किम् ? अवश्यायः ।
व्याघ्राधे प्राणिनसोः।५।१ । ५७ । एतौ यथासंख्यं प्राणिनि नासिकायां चार्थे निपात्येते । व्यावः प्राणी । आमा नासिका ।