SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ (२६७) प्रत्यया भवन्ति । विश्वदृश्वा अस्याः पुत्रो भविता । भावि कृत्यमासीत् । गोमान् आसीत् । .. भृशाभीक्ष्ण्ये हिस्वौ यथाविधि तध्वमौ च तयुष्मदि । ५।४।४२ । भृशाभीक्ष्ण्ये सर्वकालार्थे वर्तमानाद् धातोः सर्वविभक्तिसर्ववचनविषये हिस्वौ भवतः, यस्मादेव धातोर्यस्मिन्नेव कारके हिस्वौ तत्कारकविशिष्टस्यैव तस्यैव धातोः अनुप्रयोगे सति । तथा पञ्चम्या एव तध्वमौ तयोः सम्बन्धिनि बहुत्वविशिष्टे युष्मदर्थे हिस्वौ च भवतः, ययाविधि धातोः सम्बन्धेऽनुप्रयोगे सति । लुनीहि लुनीहि इत्येवायं लुनाति, इमौ लुनीतः, इमे लुनन्ति। त्वं लुनासि, युवां लुनीथः, यूयं लुनीथ । पक्षे लुनीत लुनीतेति यूयं लुनीथ । अहं लुनामि, आवां लुनीवः, वयं लुनीमः । लुनीहि लुनीहि इत्योमयं लविष्यति, अलावीदित्यादीन्यपि। अधीष्व अधीष्व इत्येवायमधीते; अधीयाते, अधीयते । अधीषे, अधीयाथे। युष्मद्बहुत्वे तु अधीष्व अधीष्व इति यूयमधीध्वे वा अधीध्वमधीध्वमिति यूयमधीध्वे इति प्रयोगद्वयम् । अधीये अधीवहे अधीमहे । यथाविधीति किम् ? लुनीहि लुनीहीत्येवायं लुनीते छिनत्ति लूयते इति धातोः सम्बन्धे न भवति। प्रचये नवा सामान्यार्थस्य । ५ । ४ । ४३ । धात्वर्थानां समुच्चये गम्ये सामान्यार्थस्य धातोः सम्बन्धे सति धातोः परौ हिस्त्रौ तध्वमौ च तयुष्मदि वा भवतः। श्रीहीन
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy