SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ (२६५) - इच्छार्थे धातावुपपदे कामोक्तौ गम्यमानायां धातोः सप्तमीपञ्चम्यौ भवतः । इच्छामि मुञ्जीत, मुक्तां वा भवान् । विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नपार्थने । ५।४।२८ । विध्यादिविशिष्टेषु कर्तृकर्मभावेषु प्रत्ययार्थेषु धातोः सप्तमीपञ्चम्यौ भवतः । विधिः-क्रियायां प्रेरणा । कटं कुर्यात् , करोतु भवान् । प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायस्तन्निमन्त्रणम् द्विसन्ध्यमावश्यकं कुर्यात् , करोतु वा। यत्र प्रेरणायामेव प्रत्याख्याने कामचारस्तदामन्त्रणम् । इह आसीत, आस्तां भवान् । सत्कारपूर्विका प्रेरणाऽधीष्टम् व्रतं रक्षतु, रक्षेत् ।संप्रश्नः-सम्प्रधारणा । किन्नु भोः पूज्याः ! अहं व्याकरणमधीयीय, अध्ययै; उत सिद्धान्तमधीयीय, अध्ययै । प्रार्थनं याञ्चा । प्रार्थना मे तर्कमधीयीय, अध्ययै । भैषानुज्ञाऽवसरे कृत्य-पञ्चम्यौ।५।४।२९ । प्रैषादिविशिष्टे कर्नादावर्थे कृत्याः पञ्चमी च भवन्ति । न्यत्कारपूर्विका प्रेरणा प्रैषः । भवता खलु कटः कार्यः । भवान् कटं करोतु । भवान् हि प्रेषितोऽनुज्ञातः, भवतोऽवसरः कटकरणे । सप्तमी चोर्ध्वमौहर्तिके । ५ । ४ । ३० । प्रैषादिषु गम्येषु उर्ध्वमौहर्तिके च वर्तमानाद् धातोः सप्तमीपञ्चम्यौ कृत्याश्च भवन्ति । ऊर्ध्वं मुहूर्तात् कटं कुर्यात् , करोतु, कटः कृत्यश्च । भवान् हि प्रेषितः, अनुज्ञातः;.भवतोऽवसरः कटकरणे। स्मे पश्चमी ।५।४।३१।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy