________________
(२६७)
किम् ?--अद्य श्वो वा गमिष्यति ग्रामं चैत्रः। ' अनुशोचनेऽपि " इयं तु कदा गन्ता यैवं पादौ निधत्ते ।
पुरा-यावतोर्वर्तमाना। ५ । ३।७। अनयोरुपपदयोः भविष्यदर्थाद् धातोर्वर्तमाना भवति । पुरा मुङ्क्ते । यावद् मुङ्क्ते ।
कदाकोनवा । ५।३।८। अनयोरुपपदयोर्भविष्यदर्थाद् धातोर्वर्तमाना वा भवति । कदा भुङ्क्ते, भोक्ष्यते, भोक्ता । कर्हि मुङ्क्ते, भोक्ष्यते, भोक्ता ।
किंवृत्ते लिप्सायाम् । ५।३।९। स्यादिविभक्त्यन्तस्य डतरडतमान्तस्य च किमो वृत्तं किंवृत्तम् , तस्मिन्नुपपदे प्रष्टुलिप्सायां गम्यायां भविष्यदाद धातोर्वर्तमाना वा भवति । को भवतां भिक्षां ददाति, दास्यति, दाता वा । कतमो भवतां भिक्षां ददाति, दास्यति, दाता का। किंवृत्त इति किम् -भिक्षां दास्यति । लिप्सायामिति किम् !कः पुरं यास्यति ।
लिप्स्यसिद्धौ । ५ । ३ । १० । • लधुमिष्यमाणाद् भक्तादेः फलावाप्तौ गम्यायां भविष्यदर्थाद
धातोर्वर्तमाना वा भवति । यो भिक्षां ददाति, दास्यति, दाता वा; स स्वर्गलोकं याति, यास्यति, याता वा ।
___पञ्चम्यर्थहेतौ । ६।३।११। 17