________________
(२५२) एकधातौ पूर्वदृष्टया करणस्थया क्रियया अभिन्नाकर्मक्रिये कर्तरि जिक्यात्मनेपदानि भवन्ति क्वचित् । परिवारयन्ते कण्टका वृक्षं स्वयमेव । क्वचिदित्यत्र न साध्वसिः छिनत्ति ।
सृजः श्राद्धे जिक्यात्मने तथा । ३ । ४ । ८४ ।
सृजः श्रद्धावति कर्तरि भिक्यात्मनेपदानि भवन्ति, यथा पूर्व विहितानि । असर्जि, मृन्यते, स्रक्ष्यते मालां धार्मिकः । श्राद्ध इति किम् ? व्यत्यसृष्ट माले मिथुनम् ।
तपेस्तपःकर्मकात् । ३।४। ८५।। '.. तपःकर्मकात् तपतेः कर्तरि भिक्यात्मनेपदानि भवन्ति, तथा । तप्यते, तेपे, अन्वतप्त तपः साधुः। तप इति किम् ? उत्तपति स्वर्ण स्वर्णकारः । कर्म इति किम् ? तपः साधुं तपति ।
कुपिराप्ये वा परस्मै च ।३।४।७४। . आभ्यां व्याप्ये कर्तरि शिद्विषये परस्मैपदं वा भवति । तद्योगे च श्यः कुष्यति, कुष्यते वा पादः स्वयमेव। रन्यति, रज्यते वा वस्त्रं स्वयमेव । व्याप्ये कर्तरीति किम् ? कुष्णाति पादं रोगः ।
इति कर्मकर्तृप्रक्रिया समाप्ता।