SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ (९४७) तम्धातोः क्ये परे आत्वं वा भवति । सायते, तन्यते । तायेत, तन्येत । तायताम् , तन्यताम् । अतायत, अतन्यत । अतानि । भाव्यते । भाव्येत । भाव्यताम् । अभाव्यत । भावयाचक्रे, भावयाम्बभूवे । अस्तेः सि हस्त्वेति । ४ । ३ । ७३ । . अस्तेः सकारस्य सादौ प्रत्यये परे लुग, एति परे तु सस्य हो भवति । भावयामाहे भावयामासाते भावयामासिरे । भावयिषीष्ट, भाविषीष्ट । भावयितासे, भावितासे । भावयिष्यते, भाविष्यते । अभावयिष्यत, अभाविष्यत । अभावि अभावयिपाताम् , अभाविषाताम् । सन्नन्तात् बुभूष्यते । बुभूष्येत । बुभुष्यताम् । अबुभूष्यत । बुभूषाञ्चके । अबुभूषि । यङन्तात् बोभूय्यते । बोभूय्येत । बोभूय्यताम् । अबोभूय्यताम् । बोभूयाचक्रे । अबोभूयि । यङ्लुगन्ताद् बोभूयते । बोभूयेत । बोभूयताम् । अबोभूयत । बोभवाञ्चके । बोभाविषीष्ट, बोभविषीष्ट । अबोभावि । स्तूयते । अस्तावि । ऋधातो:--' क्ययङाशीयें। इति गुणे अर्यते । आर्यत । आरे । आरिषीष्ट, ऋषीष्ट । आरितासे, अर्तासे । आरिष्यते, अरिष्यते । आरि । स्मर्यते । स्मारिता, स्मर्ता । इज्यते । ईजे । यक्षीष्ट । यष्टासे । अयानि । .. सपेः कर्बनुतापे च । ३ । ४।९१ । तपेः कर्मकर्तरि कर्तरि अनुतापे च भिच् न भवति ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy