________________
(२३५)
ज्ञीप्सा आत्मप्रकाशनम् , स्थेयः सभ्यः । शीप्सायां स्थेये च विषये स्थाधातोः कर्तर्यात्मनेपदं भवति । तिष्ठते कन्या च्छात्रेभ्यः । त्वयि तिष्ठते विवादः ।
प्रतिज्ञायाम् । ३ । ३ । ६५ । एतदर्थे स्थाधातोः कर्तर्यात्मनेपदं भवति । नित्यं शब्दमातिष्ठन्ते वैयाकरणाः ।
समो गिरः। ३ । ३ । ६६ । सम्पूर्वाद् गिरतेः कर्तर्यात्मनेपदं भवति, प्रतिज्ञायाम् । स्याद्वाद संगिरन्ते जैनाः । 'अवादपि वक्तव्यम्' अवगिरते।
निह्नवे ज्ञः । ३।३ । ६८। निह्नवोऽपलापः, तद्वत्तेमधातोः कर्तर्यात्मनेपदं भवति । शतमपजानीते।
, संपतेरस्मृतौ । ३ । ३ । ६९ । ___ स्मृतेरन्यार्थात् संप्रतिभ्यां परात् ज्ञाधातोः कर्तर्यात्मनेपदं भवति । अनेकान्तं संजानीते, प्रतिजानीते । स्मृतौ तु मातुः संजानाति ।
अननोः सनः । ३।३ । ७० । - सन्नन्ताद ज्ञाधातोः कर्तर्यात्मनेपदं भवति, न तु अनुपूर्वात् । धर्म निज्ञासते । अननोरिति किम् ? धर्ममनुजिज्ञासति ।
श्रुवोऽनाङ्-प्रतेः । ३।३।७१।