SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ (२००) न गृणाशुभरुचः । ३ । ४ । १३ । एभ्यो यङ् न भवति । निन्दितं गृणाति । भृशं शोभते । भृशं रोचते। वञ्चलंसध्वंसद्मशकसपतपदस्कन्दोऽन्तो नीः । ४ । १।५० । .. एषां यङन्तानां द्वित्वे सति पूर्वस्य नीरन्तो भवति । वनीसच्यते । अवनीवचिष्ट। सनीलस्यते। असनीस्रसिष्ट । दनीध्वस्यते । मदनीध्वसिष्ट । बनीभ्रश्यते । अवनीभ्रशिष्ट । चनीकस्यते । अचनीकसिष्ट । पनीपत्यते । अपनीपतिष्ट । पनीपद्यते । अपनीपदिष्ट । चनीस्कद्यते । अचनीस्कदिष्ट । मुरतोऽनुनासिकस्य । ४ । १ । ५१ । आत् परो योऽनुनासिकस्तदन्तस्य यङन्तस्य धातोदित्वे सति पूर्वस्य मुरन्तो भवति । बम्भण्यते । चक्रम्यते । ननम्यते । यंयम्यते । रंरण्यते । चङ्कण्यते । अत इति किम् तेतिम्यते । अनुनासिकस्येति किम् । पापच्यते । ऋमतां रीः। ४ । १ । ५५ । ऋमतां यङन्तां धातूनां द्वित्वे सति पूर्वस्य रीरन्तो भवति । नरीनृत्यते । चरीकृत्यते । वरीवृश्चयते। जरीगृह्यते। परीपृच्छ्यते । चलीक्लप्यते । . . घशेरयडि । ४ । १ । ८३ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy