SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ( १९८ ) न कवतेर्यङः । ४ । १ । ४७ । यङन्तस्य कवतेर्द्वित्वे सति पूर्वम्य कस्य चकारो न भवति । 'दीर्घत्रिच्वयङ्' इत्यादिना दीर्धे कोकूयते । कोकूयताम्। अकोकूयत । कोकूयाञ्चक्रे । कोकूयिषीष्ट । अकोकूयिष्ट । कवतेरिति वचनात् कौतिकुवत्योर्भवत्येव चोकूयते । : अट्यतिमूत्रिमूत्रिमूच्यशू!ः । ३ । ४ । १०।। एभ्यो भृशाभीक्ष्ण्ये यङ् भवति । अटाट्यते । अटाट्येत । अटाट्यताम् । आटाट्यत । अटाटाञ्चक्रे । अटाटिषीष्ट । अटाटिघ्यते । आटाटिष्ट । अयि रः । ४ । १।६। स्वरादेर्धातोर्द्वितीयांशस्यैकस्वरस्य संयोगादी रो द्विर्न भवति, न तु रादनन्तरे यः। और्णोनूयत । अनन्तरे ये अरार्यते । अरार्येत । अरार्यताम् । आरार्यत । अराराञ्चक्रे । अरारिषीष्ट । अरारिता । अरारिष्यते । आरारिष्यत । आरारिष्ट । सोसूत्र्यते । सोसूत्राश्चक्रे । असोसूत्रिष्ट । मोमूत्र्यते । मोमूत्राश्चक्रे । अमोमूत्रिट । सोसूच्यते । सोसूचाञ्चक्रे । असोसूचिष्ट । अशाश्यते । अशाशाञ्चक्रे । आशाशिष्ट । प्रोर्णोनूयते। प्रोर्णानूयेत । प्रोर्णोनूयताम् । प्रौर्णोनूयत । प्रोर्णोनूयाञ्चके । प्रोर्णोनूयिषीष्ट । प्रोर्णोनूयिता । प्रोर्णोनूयिष्यते । प्रौर्णोनूयिष्यत । प्रौर्णोनूयिष्ट । गत्यर्थात् कुटिले । ३ । ४ । ११ । .
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy