SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ( १९४ ) अनुनासिके चच्छ्वः शूट् । ४ । १ । १०८ । अनुनासिकादौ क्वौ धुडादौ च धातोः च्छ्वोर्यथासङ्ख्यं शूटौ भवतः । दुद्यूषति । दुषेत् । दुद्यूषतु । अदुद्यूषत् । द्यूषाकार । दुषिता । दुद्यूषिष्यति । अदुद्यूषीत् । पक्षे दिदेविषति । दिदेविषेत् । दिदेविषतु । अदिदेविषत् । अदिदेविषीत् । ऋध ईत् । ४ । १ । १७ । 1 ऋधातोः सादौ सनि परे ईर्तादेशो भवति । इति । ईर्सेत् । ईर्त्सतु । ऐसेत् । ईत्सञ्चिकार । ऐत्सीत् । इट्पक्षे अर्दिविषति । आदिधिषीत् । भ्रस्ज् - बिभक्षति, बिभ्रक्षति, बिभर्जिषति, विभ्रज्जिषति । दम्भू दम्भोधिप् धीप् । ४ । १ । १८ । दम्भेः सादौ सनि विपू- धीपौ भवतः । धिप्सति, धीप्सति । धिप्सेत्, धीप्सेत् । धिप्सतु, धीप्सतु । अधिप्सत्, अधीप्सत् । अधिप्सीत्, अधीप्सीत् । पक्षे दिदम्भिषति । दिदम्भिषेत् । दिदभिषतु । अदिदम्भिषत् । अदिदम्भिषीत् । श्रि - शिश्रीषति - ते, शिश्रयिषति-ते । यु-युयूषति, यियविषति । ऊर्णु - प्रोणुनूषति - ते, प्रोणुनविषति - ते, प्रोर्णुनुविषति - ते । भृ- बुभूति - ते, बिभरिषति - ते । अबुभूषत्, अविभरिषीत् । ज्ञप्ज्ञप्यापो ज्ञीपीप् न च द्विः सि सनि । ४ । १ । १६ । ज्ञप्--आप्धातोः सादौ सनि परे यथासङ्ख्यं ज्ञीपीपौ भवतः, न च द्वित्वम् । ज्ञीप्सति - ते । ज्ञीप्सेत् । ज्ञीप्सतु । अज्ञीप्सत् । 1
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy