SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ( १९२ ) 1 चिकीर्षति चिकीर्षेत् । चिकीर्षतु । अचिकीर्षत् । चिकीर्षाञ्चकार । चिकीर्ष्यात् । चिकीर्षिता । चिकीर्षिष्यति । अचिकीर्षीत् । तरितुमिच्छति' इवृध-' इत्यादिना वेटि ' वृतो नवा ' इत्यादिना वा दीर्घे । तितीर्षति, तितरीपति तितरिषति । अतितीर्षीत्, अतितरिषीत्, अतितरीषीत् । ग्रहीतुमिच्छति । ग्रहगुहश्व सनः । ४ । ४ । ५९ । आभ्यामुवर्णान्ताच्च विहितस्य सन आदिरिङ न भवति | रुदविदमुपग्रहस्वपप्रच्छः सन् च । ४ । ३ । ३२ ॥ एभ्यः क्त्वा सन् च किद्वद् भवति । दिना वृति, द्वित्वे पूर्वस्यात्वे — ८ ग्रहत्रश्च -' इत्या सन्यस्य । ४ । १ । ५९ । सनि परे द्वित्वे सति पूर्वस्याकारस्येकारो भवति । जिघृक्षति । जिघृक्षेत् । जिघृक्षतु । अजिघृक्षत् । जिघृक्षाञ्चकार । जिघृक्ष्यात् । जिघृक्षिता । जिघृक्षिष्यति । अजिघृक्षीत् । प्रष्टुमिच्छति । ऋस्मिपूङअशौकृगृदृवृमच्छः । ४ । ४ । ४८ । एभ्यो धातुभ्यः सन आदिरिड् भवति । पिपृच्छिषति । पिष्टच्छिषतु । अपिपृच्छिषत् । पिष्टच्छिषाञ्चकार । पिपृच्छिष्यात् । पिच्छिषिता । पिपृच्छिषिष्यति । अपिपृच्छिषिष्यत् । अपिष्टच्छिषीत् । रुरुदिषति । अरुरुद्विषीत् । विविदिषति । अविविदिषीत् । मुमुषि 1
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy