SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ( १८४ ) अथ णिगन्तप्रक्रिया। प्रयोक्तृव्यापार णिग् । ३ । ४ । २० । ___ कुर्वन्तं यः प्रयुक्ते तस्य व्यापारे वाच्ये धातोः णिम् वा भवति । चैत्रो भवति, भवन्तं चैत्रं मैत्र: प्रेरयतीति भावयति चैत्रं मैत्रः। गित्त्वादात्मनेपदमपि भावयते । भावयेत् । भावयेत । भावयतु । भावयताम् । अभावयत् । अभावयत । भावयाञ्चकार । भावयाञ्चक्रे । भावयाम्बभूव । भावयामास । भाव्यात् । मावयिषीष्ट । भावयिष्यति । भावयिष्यते । अद्यतन्यां तु गौ कृतस्य कार्यस्य स्थानिवद्भावाद् अबुभव्+इ+अ+त् इति स्थिते 'असमानलोपे ' इत्यादिना सन्वत्कार्ये सनि च ‘ओर्जान्तस्थापवर्गेऽवणे ' इतीकारे तस्य च ' लबोर्दीव-' इत्यादिना दीर्घ अबीमव+इ+अ+त् गेहूंकि अबीभवत्. अबीभवताम् अबीभवन् । अबीभवत अबीभवेताम् अवीभवन्त । जु गतौ । जवन्तं प्रेरयति जावयति । जावयते । अजावयत् । अनावयत । जाव्यात् । जावयिषीष्ट । अनीजवत् अजीजवताम् अजीजवन् । अजीजवत अजीजवेताम् ।युंक् मिश्रणे ।यावयति । यावयेत् । यावयाञ्चकार । याव्यात् । यावयिषीष्ट । अयीयवत् । अयीयवत । रि गतौ । राययति । अरीरयत् । अरीरयत। श्रृंट श्रवणे। श्रावयति । श्रावयेत् । श्रुमुद्रगुप्लुच्योर्वा । ४ । १।६१।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy