________________
( १६८) कुष्यते वा । कर्मकर्तुरभावे रोगः पादं कुष्णातीत्येव । अथ स्तम्भू स्तुम्भू स्कम्भू स्कुम्भू एते सौत्रा धातवस्तेषामपि अनुपक्षे भाभवनात् रूपाणि दयन्ते-स्तम्नाति । स्तम्नीयात् । स्तभ्नातु । स्तभान । अस्तम्नात् । तस्तम्भ ।. स्तभ्यात् । स्तम्भिता । अस्तम्भीत्, अस्तभत् । स्तुभ्नाति । स्तुभ्नीयात् । स्तुभ्नातु । अस्तुभ्नात् । तुस्तुम्भ । स्तुभ्यात् । स्तुम्भिता । स्तुम्भिष्यति । अस्तुम्भीत् । स्कम्नाति । स्कभान । अस्कम्नात् । चस्कम्भ । स्कभ्यात् । अस्कम्भीत् । स्कुम्नाति । स्कुम्नीयात् । स्कुम्नातु । स्कुभान । अस्कुम्नात् । चुस्कुम्भ । स्कुभ्यात् । स्कुम्भिता । स्कुम्भिष्यति । अस्कुम्भीत् ।
इति परस्मैपदं समाप्तम् ॥
वृश् संभक्तौ । संभक्तिः संसेवा । वृणीते वृणाते वृणते । वृणीत वृणीयाताम् वृणीरन् । वृणीताम् वृणाताम् वृणताम् । अवृणीत अवृणाताम् अवृणत । वत्रे वनाते वत्रिरे । वृषीष्ट वृषीयास्ताम् वृषीरन् । वरितासे, वरीतासे । वरिष्यते, वरीष्यते । अवरिष्यत, अवरीष्यत । अवरिष्ट अवरिषाताम् अवरिषत । अवरिष्ठाः, अवरिषायाम् अवरिट्वम् , अवरिडढ्वम् । अवरिषि अवरिष्वहि अवरिष्महि । पक्षे दीर्घ अवरीष्ट अवरीषाताम् अवरीषत । अवरीष्ठाः अवरीषाथाम् अवरीढ्वम् , अवरीढ्वम् । अवरीषि अवरीष्वहि अवरीष्महि । सिचोऽभावे अवृत अवृषाताम् अवृषत ।