SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ( १३४ ) वरितासे, वरीतासे । वरिष्यति, वरीष्यति । वरीष्यते, वरिष्यते । अवरीष्यत् , अवरिष्यत् । अवरीष्यत, अवरिष्यत । अवारीत् अवारिष्टाम् अवारिषुः । अवरिष्ट, अवरीष्ट अवरिषाताम् , अवरीषाताम् अवरीषत, अवरिषत । पक्षे अवृत अवृषाताम् अवृषत । इत्युभयपदिनः स्वादयः समाप्ताः । अथ परस्मैपदिनः स्वादयः । हिंट् गतिवृद्ध्योः । हिनोति। हिनुयात् । हिनोतु । अहिनोत् । अङे हिहनो हो घः पूर्वात् । ४ । १ । ३४ । हिहनोडवर्ने प्रत्यये परे द्वित्वे सति पूर्वस्मात् परस्य हो घो भवति । जिघाय जिव्यतुः जिव्युः । जिघयिथ, निघेथ जिघ्यथुः जित्र्य । जिघाय, जियय जित्र्यिव निध्यिम । हीयात् । हेता । हेष्यति । अहेष्यत् । अहैषीत् अहैष्टाम् अहैषुः । श्रृंट श्रवणे । 'श्रौतिकृयु' इत्यादिना '' आदेशे शृणोति । शृणुयात्। शृणोतु । अशृणोत् । शुश्राव शुश्रुवतुः शुश्रुवुः । शुश्रोथ । श्रूयात् । श्रोता। श्रोष्यति । अश्रोष्यत् । अश्रौषीत् । टुकुंद उपतापे । दुनोति । दुनुयात् । दुनोतु । अदुनोत् । दुदाव । दुदविथ, दुदोथ । दूयात् । दोता । दोष्यति । अदोष्यत् । अदौपीत् । पृट् प्रीतौ । पृणोति । पृणुयात् । पृणोतु । अपृणोत् । पपार पप्रतुः पाः । प्रियात् । पर्ता । परिष्यति । अपरिष्यत् । अपार्षीत् । स्मंट पालने च । स्मृणोति । स्मृणुयात् । स्मृणोतु ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy