SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ अगोधीत् । राधंच् वृद्धौ । राध्यति । राध्येत् । राध्यतु । अराध्यत् । रराध अवित्परोक्षासेट्थवोरेः। ४।१।२३ । . राधेहिँसार्थस्यावित्परोक्षायां सेटि थवि च परे एभवति, न च द्विः । रेधतुः रेधुः । रेधिथ रेवथुः रेध । रराध रेधिव रेधिम । हिंसार्थस्याभावे आरराधतुः आरराधुः । राध्यात् । राधिता । राधिष्यति । अराधिष्यत् । अरात्सीत् अराद्धाम् अरात्सुः । व्यवंच ताडने । ज्याव्यधः क्लिति । ४।१।८१ । ज्याव्यधोः सस्वरान्तस्था किति डिति य्वृद् भवति। विध्यति। विध्येत् । विध्यतु । अविध्यत् । परोक्षायां ज्याव्येव्यधिव्यचिव्यथेरिः ' विव्याध विविधतुः विविधुः । विध्यात् । व्यधा। व्यत्स्यति । अव्यत्स्यत् । अव्यात्सीत् अव्याद्धाम् अव्यात्सुः । क्षिपंच प्रेरणे । क्षिप्यति । क्षिप्येत् । क्षिप्यतु । अक्षिप्यत् । चिक्षेप । क्षिप्यात् । क्षेप्ता । क्षेप्स्यति । अक्षेप्स्यत् । अझैप्सीत् अझैप्ताम् अझैप्सुः । अझैप्सीः । पुष्पच् विकसने । पुष्प्यति । पुष्प्येत् । पुष्प्यतु । अपुष्प्यत् । पुपुष्प । पुष्प्यात् । पुष्पिता ।। पुष्पिष्यति । अपुष्पिष्यत् । अपुष्पीत् । तिम तीम ष्टिम ष्टीमच आर्द्रभावे । षिवूच रतौ । सीव्यति । सीव्येत् । सीव्यतु । असीव्यत् । सिषेव । सीव्यात । सेविता । सेविष्यति । असेक्ष्यित् ..
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy