SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ (९८) ऊशुः । उश्यात् । वशिताः। वशिष्यति । अवशिष्यत् । अवाशीत् , अवशीत् । असक् मुवि । अस्ति :. नास्त्योर्लक् । ४ । २ । ९० । . भप्रत्ययस्यास्तेश्चाकारस्य शित्यविति लुम् भवति । स्तः सन्ति । अस्तेः सि हस्त्वेति । ४।३।७३। __अस्तेः सकारस्य सादौ प्रत्यये परे लुग्, एति परे तु हो भवति । असि स्थः स्थ । अस्मि स्वः स्मः । स्यात् स्याताम् स्युः । स्याः स्यातम् स्यात । स्याम् स्याव स्याम । अस्तु, स्तात् स्ताम् सन्तु । एधि, स्तात् स्तम् स्त । असानि असाव असाम । ' एत्यस्तेर्वृद्धिः ' इति वृद्धौ ‘सः सिजस्तेर्दिस्योः' इति ईति आसीत् आस्ताम् आसन् । आसीः आस्तम् आस्त । आसम् आस्व आस्म । अस्तिब्रुवोर्भूवचावशिति । ४ । ४ । १। अस्तिब्रुवोर्यथासङ्ख्यं भूवचावादेशौ भवतः, अशिति विषये । बभूव । भूयात् । भविता । भविष्यति । अभविष्यत् । अभूत् । इत्यदादिपरस्मैपदं समाप्तम् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy