________________
अध्यायम् अध्यैव अध्यैम । अधीयाय अधीयतुः इयतुः 'योऽनेकस्वरस्य' इति यत्वम् अधीयुः । अधीयात् । अध्येता । अध्येष्यति । अध्यैष्यत् ।
इणिकोई । ४ । ४ । २३ । इणिकोरद्यतन्यां गा भवति । अध्यगात् अध्यगाताम् अध्यगुः। इंण्क् गतौ । एति इतः ।
ह्विणोरप्विति व्यौ । ४।३ । १५ । - होरिणश्च नामिनः स्वरादावपित्यविति शिति यथासङ्ख्यं व्यौ भवतः । यन्ति । एषि इथः इथ । एमि इवः इमः । इयात् । एतु, इतात् इताम् यन्तु । इहि, इतात् इतम् इत। अयानि अयाव अयाम । ऐत् ऐताम् आयन् । ऐः ऐतम् ऐत । आयम् ऐव ऐम । इयाय ।
इणः ।२।१ । ५१। .. इणधातोः स्वरादौ प्रत्यये परे इयादेशो भवति। ईयतुः ईयुः। इययिथ, इयेथ ईयथुः ईय । इयाय, इयय ईयिव ईयिम । ईयात् 'दीर्घनिच्वयङ्यक्येषु च' इति दीर्घः । उपसर्गात् तु. . आशिषीणः। ४।३।१०७। ..
उपसर्गात् परस्येण ईतः विडति यादावाशिषि इस्वो भवति । उदियात् । एता । एष्यति । ऐष्यत् । अगात् अगाताम् अगुः ।