SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ (८५) : अदेः परोक्षायां घस्ल आदेशो वा भवति । आद आदतुः आदुः । 'ऋवृव्येऽद इट् ' आदिथ आदथुः आद । आद आदिव आदिम । पक्षे जघास 'गमहन-' इत्यादिनोपान्त्यलोपे जक्षतुः जक्षुः । जघसिथ जक्षथुः जक्ष । जघास, जघस जक्षिव जक्षिम । अद्यात् । अत्ता । अत्स्यति । आत्स्यत् । अद्यतन्याम् घस्ट सनद्यतनीघबचलि । ४।४।१७ । . एष्वदेर्घस्ल भवति । अघसत् अघसताम् अघसन् । अपस: अघप्ततम् अघसत । अघसम् अघसाव अघसाम । प्सातिः । प्सा यात् । प्सातु । अप्सात् अप्साताम् । वा द्विषातोऽनः पुस् । ४ । २।९१ । द्विष आदन्ताच परस्य शितोऽवितोऽनः स्थाने पुस् वा भवति । ' इड़ेत्पुसि-' इति आलुकि अप्सुः, अप्सान् । अप्साः अप्सातम् अप्सात । अप्साम् अप्साव अप्साम । पप्सौ पप्सतुः पप्सुः । पप्सिथ, पप्साथ । प्सायात, प्सेयात् । प्साता। प्सास्यति । अप्सास्यत् । अप्सासीत् अप्सासिष्टाम् अप्सासिछुः । भांक् दीप्तौ । भाति भातः भान्ति । भायात् । भातु । अमात् अभाताम् अभुः, अभान् । बभौ । भायात् । भाता । भारवति । अभास्यत् । अभासीत् । यांक प्रापणे । वाक् गतिगन्धयोः । ष्णांक शौचे । स्नाति । सस्नौ । स्नायात, स्नेयात् । अस्ना
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy