________________
(८३) त्वरते । तत्वरे । अत्वरिष्ट । प्रसिष् विस्तारे। प्रसते । पप्रसे । अप्रसिष्ट । दक्षि हिंसागत्योः । दक्षते । ददक्षे। अदक्षिष्ट । 'श्रां पाके' अदादौ द्रष्टव्यः । स्मृ आध्याने । स्मरति । स्मरेत् । स्मरतु । अस्मरत्। सस्मार सस्मरतुः सस्मरुः । स्मर्यात् । स्मों । स्मरिष्यति । अस्मरिष्यत् । अस्मार्षीत् । दृ भये । न नये । ष्टक स्तक प्रतिघाते । चक तृप्तौ च । अक कुटिलायां गतौ । कखे हसने । अग कुटिलायां गतौ । रगे शङ्कायाम् । रगति । रराग रेगतुः रेगुः । अरागीत् । लगे सङ्गे । लगति । ललाग लेगतुः लेगुः । लेगिय । अलगीत् । हगे लगे पगे सगे ष्टगे स्थगे संवरणे । वट भट परिभाषणे । वटति । ववाट ववटतुः ववटुः । अवाटीत् , अवटीत् । णट नृत्तौ । नटति । ननाट नेटतुः नेटुः । अनाटीत् , अनटीत् । गड सेचने । गडति । जगाड । अगाडीत् , अगडीत् । हेड वेष्टने। हेडति । जिहेड । अहेडीत् । लड जिह्वोन्मन्थने । लडति । ललाड । अलाडीत् , अलडीत् । फण कण रण गतौ । फणति । पफाण पफणतुः, फेणतुः पफणुः, फेणुः । फेणिथ, पफणिथ । अकाणीत् , अकगीत् । रणति । रराण रेणतुः रेणुः । अराणीत् , अरणीत् । चण हिंसादानयोश्च । चणति । चचाण। अचाणीत् । शण श्रण दाने । स्नथ क्नथ क्रथ क्लथ हिंसायाम् । छद ऊर्जने । मदै हर्षग्लपनयोः । मदति । ममाद । अमादीत् । ष्टन स्तन ध्वन शब्दे । स्वन अवतंसने 1 सस्वान सस्वनतुः, सस्वनुः । अस्वानीत् , अस्वनीत् । चन