________________
(७८) युद्भ्योऽद्यतन्याम् । ३ । ३ । ४४ । धुतादिभ्योऽद्यतनीविषये कर्तर्यात्मनेपदं वा भवति । अद्योतिष्ट अद्योतिषाताम् अद्योतिषत । पक्षे ' लदिद्युतादि-' इत्यादिना परस्मैपदेऽङि अद्युतत् अद्युतताम् अद्युतन् । रुचि अभिप्रीत्यां च । रोचते । रुरुचे । अरोचिष्ट, अरुचत् । बुटि परिवर्तने । घोटते । जुघुटे । अघोटिष्ट, अघुटत् । रुटि लुटि लुठि प्रतिपाते । रोटते । रूटे । अरोटिष्ट, अरुटत् । लोटते । लुलुटे। अलोटिष्ट, अलुटत् । लोठते । लुलुठे । अलोठिष्ट, अलुठत् । श्चिताङ् वरणे । श्वतते । शिश्विते । अश्वेतिष्ट, अश्वितत् । जिमिदाङ् स्नेहने । मेदते । मिमिदे । अमेदिष्ट, अमेदत् । निविदाङ् निष्विदाङ् मोचने च । चिश्विदे । अक्ष्वेदिष्ट, अश्विदत् । सिष्विदे । अस्वेदिष्ट, अस्विदत् । शुभि दीप्तौ । शोभते । शुशुभे । अशोभिष्ट, अशुभत् । क्षुभि सञ्चलने । क्षोभते । चुक्षुभे । अक्षोभिष्ट, अक्षुभत्। णभि तुभि हिंसायाम् । नभते । नेभे नेभाते नेभिरे। अनभिष्ट, अनभत् । तोभते । तुतुमे । अतोभिष्ट, अतुभत् । संभूङ् विश्वासे। स्त्रम्भते । सत्रम्भे । अस्त्रम्भिष्ट, अस्त्रभत् । भ्रंशू ख्रसूङ अवस्रंसने । भ्रंशते । बभ्रंशे । अभ्रंशिष्ट, अनशत् । स्रंसते । सत्रंसे । अनसिष्ट, अलसत् । ध्वंसूङ् गतौ च । ध्वंसते । दध्वंसे । अध्वंसिष्ट , अध्वसत् । अथ द्युतायन्तर्गणो वृतादिः ।
वृतूङ् वर्तने । वर्तते । वर्तेत । वर्तताम् । अवर्तत । ववृते ।