________________
शिक्षि विद्योपादाने । शिक्षते । शिक्षेत । शिक्षताम् । अशिक्षत । शिशिक्षे । शिक्षिषीष्ट । शिक्षिता । शिक्षिष्यते । अशिक्षिष्यत । अशिक्षिष्ट । भिक्षि याञ्चायाम् । भिक्षते । बिभिक्षे । अभिविष्ट । दीक्षि मौण्डयेज्योपनयननियमव्रतादेशेषु । दीक्षते । दिदीक्षे । अदीक्षिष्ट । ईक्षि दर्शने । ईक्षते । ईक्षाञ्चक्रे । ईक्षाम्बभूवे । ईक्षामाहे । ऐक्षिष्ट ।
इत्यात्मनेपदं समाप्तम् ।
अथोभयपदिनः। श्रिग सेवायाम् 'ईगितः' इति फलवति कर्तर्यात्मनेपदमन्यथा परस्मैपदम् । श्रयते । श्रयेत । श्रेयताम् । अश्रयत । शिश्रिये ।। श्रयिषीष्ट । श्रयिता । श्रयिष्यते । अश्रयिष्यत । अद्यतन्याम्"णिश्रि-' इत्यादिना उप्रत्यये द्वित्वे अशिश्रियत 1 श्यति । श्रयेत् । श्रयतु । अश्रयत् । शिश्राय । श्रीयात् । श्रयिता । श्रयिष्यति । अश्रयिष्यत् । अशिश्रियत् । णींग प्रोपणे । नयति । नयते । नयेत् । नयेत । नयतु । नयताम् । अनयत् । अनयत । निनाय । निन्ये । नीयात् । नेषीष्ट । नेतासि । नेतासे । नेष्यति । नेष्यते । अनेष्यत् । अनेष्यत । अनैषीत् । अनेष्ट । हंग् हरणे । हरति । हरते । जहार । जहे। ...
ऋवर्णात् । ४।३। ३६ । ऋवर्णान्ताद् धातोरनिटावात्मनेपदविषयौ सिजाशिषौ किद्वद्