________________
( २४ ) अस्वारिषुः । इडभावे अस्वार्षीत्, अस्वार्थम्, अस्वार्षुः इत्यादयः ॥ 'हूं वरणे' । द्वरति । द्वरेत् । द्वरतु । अद्वरत । दद्वार दद्वरतुः, दद्वरुः । दद्वर्थ । दद्ववि । दद्वरिम | द्वर्यात् । द्वर्ता । द्वरिष्यति । अद्वरिष्यत् । द्वार्षीत् । ' सुं गतौ ' सरति । सरेत् । सरतु । असरत् । ससार । स्त्रियात् । सर्ता । सरिष्यति । असरिष्यत् ।
सर्त्तर्वा । ३ । ४ । ६१ ।
आभ्यामङ् वा भवति कर्तर्यद्यतन्यां परायाम् । असरत् असरताम्, असरन् । असरः, असरतम्, असरत । असरम्, असराव, अससम । पक्षे अस र्षीत्, असाष्टम्, असार्षुः । असार्षीः, असाष्टम्, असाष्ट । असार्षम्, असा, असा । 'ऋ प्रापणे च' अरति । अरेत् । अस्तु । आरत् । परोक्षायां द्वित्वे 'ऋतोऽद्' इत्यत्त्वे
अस्यादेशः परोक्षायाम् । ४ । १ । ६८ ।
7
परोक्षायां द्वित्वे पूर्वस्यादेरकारस्याऽऽकारो भवति । उत्तरस्य वृद्धौ ' समानानाम्' इति दीर्घे आर । आरतुः आरुरित्यादौ तु गुणः ।
ऋनुव्येऽर इट् । ४ । ४ । ८० ।
एभ्यः परस्य थव आदिरिड् भवति । आरिथ, आरथुः आर । अर्थात् । अर्ता । अरिष्यति । आरिष्यत् । अद्यतन्यां