________________
( २३२ )
,
आभ्यां पूर्वोक्तार्थाभ्यां स्वार्थे आत् भवति चकाराद् दक्षिणोजराभ्यां च । अपरस्य पश्चादेशः । अधरात् पश्चात्, दक्षिणात् उत्तरात् ।
आही दूरे । ७ । २ । १२० ।
दूरदिग्देशार्थात् प्रथमासप्तम्यन्ताद् दक्षिणादा आहिश्व भवति । दक्षिणा, दक्षिणा हि रम्यं वासो वा । ' उत्तराद् वा वाच्यौ' उत्तरा, उत्तराहि पक्षे उत्तरतः उत्तराद् रम्यं वासो वा ।
अदूरे एन: । ७ । २ । १२२ ।
अधेरदूरे वर्तमानाद् दिगाद्यर्थे वर्तमानाच्च प्रथमासप्तम्यताद् दिक्शब्दाद् नो भवति । पूर्वेणास्य रमणीयम् । कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तच्चे चिः । ७ । २ । १२६ ।
कर्मार्थात् करोतिना योगे कर्त्रर्थाच्च स्वस्तिभ्यां योगेऽभूततवे गम्यमाने चिवः प्रत्ययो भवति । अशुक्लं शुक्लं करोति शुक्लीकरोति पटम् । अशुक्लः शुक्लो भवति शुक्कीभवति परः । शुक्लीस्याद् वस्त्रम् ।
ईश्त्राववर्णस्यानव्ययस्य । ४ । ३ । १११ । i अव्ययवर्जितस्यावर्णान्तस्य च्वौ परे ईर्भवति । मालीस्यात् । अरुर्मनश्चक्षुश्वेतोरहोरजसां लुक् च्चौ । ७ । २ । १२७ । एषां परेऽन्तस्य लुग् भवति । अनरुः अरुः करोति
।