________________
.. ॥ अहम् ॥ नमो नमः श्रीप्रभुधर्मसूरये।
धर्मदीपिका ।
----- -- नत्वा वीरं जगद्वन्धं धर्ममूरि गुरुं तथा । सिद्धहेमप्रवेशाय क्रियते धर्मदीपिका ॥१॥
अहं । १ । १।१। 'अहं' इत्येतदक्षरं परमेश्वरस्य परमेष्ठिनो वाचकं शास्त्रस्यादौ प्रणिधेयम् ।
सिद्धिः स्याद्वादात् । १।१।२।। कथंचित् सर्वदर्शनसंमतसद्भतनित्यानित्यादिवस्त्वंशानां मिथः सापेक्षतया वदनं स्याद्वादः । अथवा नित्यानित्यायनेकधर्मशबलैकवस्त्वभ्युपगमः स्याद्वादः । तस्मात् प्रकृतानां शब्दानां सिद्धिनिष्पत्तिर्जातव्या।
औदन्ताः स्वराः।१।१।४। अकाराद्या औकारान्ता वर्णाः स्वरसंज्ञकाः स्युः । ते च अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ ।