SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ (२.१६) प्रथमान्ताद् मानवाचिनः षष्ठ्यर्थे मात्र मति संशयेऽर्थे । प्रस्थमात्र स्यात् । इदंकिमोऽतुरियकिय चास्य । ७ । १ । १४८ । मानार्थे वर्तमानाभ्यामाभ्यां षष्ठ्यथ मयेऽभिवति । तद्योगे चानयोर्यथासंख्यमियकियौ । इदं मानमस्य इयान्, किं मानमस्य कियान् पटः । .. यत्तदेतदो डावादिः । ७।१ । १४९। मानवृत्तिभ्यः प्रथमान्तेभ्य एभ्यः षष्ठयर्थेऽतुप्रत्ययो भवति, स च डावादिः । यत् तद् एतत् प्रमाणमस्य स यावान् तावान् , एतावान् । यत्तत्किमः संख्याया डतिर्वा । ७।१।१५० संख्यारूपमानार्थवृत्तिभ्यः प्रथमान्तेभ्यो यत् तत् किम् इत्येतेभ्यः षष्ठ्यर्थे डतिर्वा भवति । या सा का संख्या मानमेषां यति तति कति, पक्षे यावन्तः तावन्तः कियन्तः । अवयवात् तयट् । ७।१।११। अवयववाचिनः संख्यार्थात् स्यन्तात् षष्ठ्यर्थे तयड् भाति । चत्वारोऽवयवा अस्याः सा चतुष्टयी, एवं पञ्चतयी । 'द्वित्रिम्यामयड् वा ' द्वाववयवावस्य तद् द्वयं, द्वितयम् । त्रयोऽवयवा अस्य त्रय, त्रितयम् । संख्यापूरणे डट् । ७।१।१६५ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy