________________
(
र
'
:
आभ्यां षष्ठ्यन्ताभ्यां ज्ञातेऽर्थे यथोक्तं प्रत्ययो भवति । लोकस्य ज्ञातो लौकिकः, सर्वलोकस्य ज्ञातः सार्वलौकिकः। ....
तं पचति द्रोणाद् वाऽञ् । ६ । ४ । १६१ ।
द्वितीयान्ताद् द्रोणशब्दात् पचत्यर्थेऽञ् वा भवति । द्रोणं पचति द्रौणी, द्रौणिकी।
सम्भवदवहरतोश्च। ६ । ४ । १६२ । द्वितीयान्ताद् नाम्नः सम्भवति अवहरति पचत्यर्थे चेकणादयों भवन्ति । आधेयस्य प्रमाणानतिरेकेण धारणं सम्भवः, अतिरेकेण धारणमवहरः । प्रस्थं सम्भवति अवहरति पचति वा प्रास्थिका कटारः । खारीकः । कौडविकः।
वंशादेर्भाराद् हरद्वहदावहत्सु । ६ । ४ । १६६ ।
वंशादिपराद् भारशब्दाद् हरति वहति आवहति चार्थे यथाविहितं प्रत्यया भवन्ति । वंशभारं हरति वहति आवहति : वांशमारिका, एवं कौटभारिकः । ।
.. मानम् । ६ । ४ । १६९ । ... प्रथमान्तात् षष्ठयर्थे यथाविहितं प्रत्यया भवन्ति । प्रथमान्तं . चेद् मानं भवेत्। प्रस्थः मानमस्य प्रास्थिको राशिः, एवं द्रौणिक, खारीकः।
। तमर्हति । ६।४ । १७७।