________________
' (.१-६७) ऋष्यादिवाचिभ्यो. नामभ्योऽपत्येऽण् भवति । वशिष्ठस्यापत्य वाशिष्ठः । वैश्वामित्रः । वसुदेवस्यापत्यं वासुदेवः । आनिरुद्धः । श्वफलकस्यापत्यं श्वाफलकः । सहदेवस्यापत्यं साहदेवः । नाकुलः ।
सङ्ख्यासंभद्राद् मातुर्मातुर्च । ६ । १ । ६६ ।
संख्यावाचिनः शब्दात् संभद्राभ्यां च परो यो मातृशब्दस्तदन्तादपत्येऽर्थेऽण् भवति । मातुश्च मातुरादेशः । द्वयोर्मात्रोरपत्यं द्वैमातुरः । पाण्मातुरः । सांमातुरः । भाद्रमातुरः ।।
कन्यात्रिवेण्याः कनीनत्रिवणं च । ६ । १ । ६२ ।।
आभ्यामपत्येऽण् यथासंख्यं च कनीनत्रिवशावादेशौ भवतः। कन्याया अपत्यं कानीनः । त्रिवेण्या अपत्यं त्रैवणः ।
दितेश्चैयण् वा ।६।१।६९। , . .दितिशब्दाद् मण्डूकशब्दाच्चापत्ये एयण वा भवति । दितेरपत्यं दैतेयः, दैत्यो वा । मण्डूकस्यापत्यं माण्डूकेयः, माण्डूकिर्वा। मण्डूकस्याणपि माण्डूकः । ..
. ...... . याप्त्यूङः । ६।१ । ७०... . . ड्यन्तादाबन्तात् त्यन्तादूङन्ताच्चापत्ये. एयण भवति । सुपा अपत्यं सौपर्णेयः । विनताया अपत्यं वैनतेयः । युवत्या अपत्यं यौवतेयः । कमण्डल्वा अपत्यं कामण्डलेयः। पीलासाल्वाभ्यामणपि पैलेयः पैला । साल्नेय साल्वः ।...