________________
(. १६३ )
जीवदेव मुवस वा भवति । गार्ग्यस्यापत्यं जीवद् गार्ग्यः गार्ग्ययो वा । वात्स्यः वात्स्यायनः । सञ्ज्ञा दुर्वा । ६ । १ । ६।
I
हठादू या सज्ञा सा दुसन्ज्ञा वा भवति । चैत्रीयाः चैत्राः । त्यदादिः । ६ । १ । ७ ।
असौ दुसो भवति । ' दोरीयः' इति ईये त्वदीयः । तदीयः ।
प्राग् जितादण् । ६ । १ । १३ ।
' तेन जितजयद्दीव्यत्खनत्सु ' इत्येतस्मात् सूत्रात् प्राग - येऽपत्यादयोऽर्थास्तेष्वण् वा भवत्यपवादविषयं मुक्त्वा । 'उपगोरपत्यम् - औपगवः । मञ्जिष्ठेन रक्तम् - माञ्जिष्ठम् ।
ङसोऽपत्ये । ६ । १ । २८ ।
षष्ठ्यन्ताद् नाम्नोऽपत्येऽर्थे यथाविहितमणादयो भवन्ति । • उपगु + अण् इति स्थिते ण इत्सज्ञायां सत्यां
वृद्धिः स्वरेष्वादेर्भिणति तद्धिते १७।४ । १ । ञिति णिति तद्धिते परे प्रकृतेः प्रथमस्वरस्य वृद्धिर्भवति । -इत्यादिस्वरस्य वृद्धौ औप + अ इति
अस्वयंभुवोऽव् । ७ । ४ । ७० ।
स्वयंभूवर्जस्योवर्णान्तस्यापदस्य तद्धिते परेऽव् भवति । अवादेशे औपगवः ।